________________ गाथा-४५-४६ १८-भिक्षप्रतिमा-पञ्चाशकम् 241 विहितानुष्ठानमपि च कर्तव्यरूपोऽपि, सदागमात् सुन्दरागमात्, एष प्रतिमाकल्पो युज्यते घटते, एवमुक्तं वैतत् यस्माद्धेतोः न नैव युक्तिभिर्बाधितो विषयोऽस्येति युक्तिबाधितविषयः। सोऽपि युक्तिबाधितविषयोऽपि, सदागमः प्रशस्तागमो, भवति नैव भवतीत्यर्थः // 44 // जुत्तीए अविरुद्धो, सदागमो सावि तदविरुद्ध त्ति / इय अण्णोऽण्णाणुगयं, उभयं पडिवत्तिहेउ त्ति // 891 // 18/45 युक्त्या अविरुद्धोऽबाधितः, सदागमः शोभनागमः, साऽपि युक्तिः प्रत्यक्षादिका, तदविरुद्धेति आगमाविरुद्धः इत्येवम् अन्योऽन्यानुगतं परस्परानुगतम्, उभयं युक्तिसदागमरूपम्, प्रतिपत्तिहेतुरिति प्रतिपत्त्युपाय अतीन्द्रियार्थेषु // 45 // कयमेत्थ पसंगेणं झाणं, पुण निच्चमेव एयस्स / सुत्तत्थाणुसरणओ, रागादिविणासणं परमं // 892 // 18/46 कृतमत्र पर्याप्तमत्र, प्रसङ्गेन विस्तरेण, ध्यानं पुनरेकाग्रतारूपम् / नित्यमेव सदैव वै एतस्य प्रतिमाप्रतिपन्नस्य, सूत्रार्थानुस्मरणतः सूत्रार्थयोरनुस्मरणात्, रागादिविनाशनं रागद्वेषमोहापहारहेतुः, परमं प्रधानं धर्मादि परमत्वं च तस्य मुक्तिहेतुत्वादिति // 46 // __ [अभयदेवसूरिपादैरयं पाठः पाठान्तरत्वेन उपात्तः / स्वयं तु 'सुत्तत्थाणुसरणं' इति प्रथमान्तम्, तथा 'ओ' इति पूर्णार्थं स्वीकरोति,] (1. सुत्तत्थाणुसरणं ओ अटी. / 2. रम्मं अटी. / ) ॥साधुप्रतिमाप्रकरणम् ॥१८॥॥छ।। कृतिरियं श्रीश्वेताम्बराचार्ययशोभद्रस्येति / संवत 1121 ज्येष्ठसुदि 11 बुधदिने ॥छ। श्रीरस्तु / / जसोधरेण लिखितम् - ससहरकुलम्मि विउले आसि ससहरकरसरिसगुणकलिओ। कलिमलकलंकमुक्को सिरिसूरिजिणेसरो नाम // 1 // तस्सऽत्थि सीसपवरो, सीसो जिणसासणसाहणेक्कतल्लेसो / जिणचंदसूरिनामो दिणनाहो व्व पसिद्धओ तवसा / / 2 / / अण्णो वि अत्थि पवरो भव्वो भव्वाण बोहणिक्करओ। सिरि अभयदेवसूरीथिरो थेरो इव अत्थि वेयविऊ // 3 // तत्तो वि य दढधम्मो धम्मरुई धम्मदेसओऽत्थि मुणी। लधुवज्झायपओ सीसो सिरिधम्मदेवो त्ति // 4 //