________________ 240 १८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-४०-४४ ___ अतो हेतोः अतीव ज्ञेया सुश्लिष्टा सुयुक्ता धर्मकायपीडापि धर्मशरीराबाधापि, अन्तमत्तुं शीलमस्येति अन्तादी, तस्याऽन्तादिनः अन्तप्रान्ताशिनः, सकामा समनोरथाः स्वाभिप्रायप्रवृत्तत्वात्, तथा तेन रूपेण, तस्य प्रतिमाप्रतिपन्नस्य, अदीनचित्तस्यादीनमनसः // 39 // एतदेव समर्थयते - न हु पडइ तस्स भावो, संजमठाणाउ अवि य वड्ढेइ / न य कायपायओऽवि हु, तदभावे कोइ दोसो त्ति // 886 // 18/40 न हु नैवेतत्, पतति प्रच्यवते, तस्य प्रतिमाप्रतिपन्नस्य, भावोऽध्यवसायः, संयमस्थानाच्चारित्रस्थानाद् अपि च किन्तु, वर्धते वृद्धिमनुभवति, न च कायपाततोऽपि कायप्रतिपातादपि, हुर्वाक्यालङ्कारे, तदभावे भावप्रतिपत्त्यभावे, कश्चिद्दोष इति, नैव इत्यर्थः // 40 // चित्ताणं कम्माणं, चित्तो च्चिय होइ खवणुवाओ वि / अणुबंधछेयणादी, सो उण एवं ति णायव्वो // 887 // 18/41 चित्राणां चित्रस्वभावानां कर्मणां ज्ञानावरणादीनां चित्र एव प्रतिमानुष्ठानादिभिः भवति सम्भवति, क्षपणोपायोऽपि क्षयहेतुरपि अनुबन्धच्छेदनादिः सन्ततिनिवर्त्तनादिः / स पुनः क्षपणोपायः / एवमिति प्रतिमाकल्पविधानेन, ज्ञातव्यो विज्ञेयः // 41 / / इहरा उ णाभिहाणं, जुज्जइ सुत्तमि हंदि एयस्स / एयंमि अवसरंमी, एसा खलु तंतजुत्ति त्ति // 888 // 18/42 इतरथा त्वन्यथा तु नाभिधानं न प्रतिपादनं युज्यते घटते, सूत्र आगमे, हन्तैतस्य प्रतिमाकल्पस्य एतस्मिन्नवसरे प्रतिमाकल्पयोग्ये, एषा खलु एषैव तन्त्रयुक्तिरित्यागमयुक्तिः // 42 // अण्णे भणंति एसो, विहियाणटाणमागमे भणिओ / पडिमाकप्पो सेट्ठो, दुक्करकरणेण विण्णेओ // 889 // 18/43 अन्ये अपरे सूरयः स्वतन्त्रस्थिता एव सूक्ष्मबुद्धिविकला, भणन्ति प्रतिपादयन्ति, एष प्रतिमाकल्पो, विहितानुष्ठानं कर्तव्यरुपम्, आगमे शास्त्रे, भणितः प्रतिपादितः, प्रतिमाकल्पः श्रेष्ठः आगमोक्तत्वमात्रादेव, दुष्करकरणेन दुष्करक्रियया, विज्ञेयोऽवबोद्धव्यः // 43 एतत्परिहारायाह - विहियाणुट्ठाणं पि य सदागमा एस जुज्जई एवं / जम्हा न जुत्तिबाहियविसओऽवि सदागमो होति // 890 // 18/44