________________ गाथा-३६-३९ ___ १८-भिक्षुप्रतिमा-पञ्चाशकम् 239 कथमित्याह - अब्भुज्जयमेगयरं, पडिवज्जिउकामु सोऽवि पव्वावे / गणिगुणसलद्धिओ खलु, एमेव अलद्धिजुत्तो वि // 882 // 18/36 अभ्युद्यतं प्रयतमेकतरं विहारम्, प्रतिपत्त्युकामोऽभ्युपगन्तुकामः, सोऽपि प्रतिमाप्रतिपत्तियोग्यो महात्मा प्रव्राजयेत्, परोपकारसमर्थां दीक्षाम्, गणिनो गणस्वामिनः, गुणाः सूत्रार्थनिर्वाणप्रियदृढधर्मत्वादयः तैः, समाना लब्धिरस्य गणिगुणसलब्धिकः ।खलुशब्दो वाक्यालङ्कारे, एवमेवालब्धियुक्तोऽपि गणिगुणलब्धि विकलोऽपि प्रतिमानां प्रतिपत्ता / अनेन परोपकारविषयमागमस्य गरीयस्त्वमावेदयति, विशिष्टप्रव्राजनीयाभ्युपगमो हि गुरुतरगुणसम्पन्नः, न प्रतिमापरिपालनानुष्ठानमेव, सर्वत्र परोपकारस्य गरीयस्त्वादेवमेवागमप्रवृत्तेः / / 36 / / कर्मव्याधिक्रियां प्रतिपन्नस्यैतदवस्थान्तरं ज्ञेयमित्युक्तम्, तत्कुतो भवतीत्याह - तं चावत्थंतरमिह, जायइ तह संकिलिट्ठकम्माओ / पत्थुयनिवाहिदट्ठाइ जह तहा सम्ममवसेयं // 883 // 18/37 तच्चावस्थान्तरमिह प्रस्तावे, जायते सम्भवति, तथा संक्लिष्टं च तत्कर्म च तथासङ्क्लिष्टकर्म, ततः, तदुदयरूपत्वात्तस्य, प्रस्तुतश्चासौ नृपादिश्च तस्य दष्टादि गुरुदोषरूपं [पाठान्तरे प्रस्तुतनृपस्य यदहिदष्टादि तत् तथा-अ.टी.] यथा तथा सम्यगवसेयम् / प्रतिमानां प्रतिपत्तुरपि तीव्रकर्मोदयरूपम्, न ह्यसति तस्मिन् प्रतिमाकल्प इष्यते तत्वज्ञैः प्रतिमानुष्ठानसाध्यत्वात्, तदिहाङ्गीक्रियते // 37 // (1. पत्थुयनिवस्स जमहिदट्ठाइ अटी.) कथं पुनरिदमवसीयते अवस्थान्तरं प्रतिमानुष्ठानसाध्यमित्याशङ्क्याह - अहिगयसुंदरभावस्स विग्घजणगं ति संकिलिटुं च / तह चेव तं खविज्जइ, एत्तो च्चिय गम्मए एयं // 884 // 18/38 अधिकृतसुन्दरभावस्य विशिष्टज्ञानादिकारणस्य, विनजनकमिति विघ्नहेतुरिति, संक्लिष्टं च सङ्क्लेशयुक्तंच तथा चैव प्रतिमाप्रतिपत्त्यैव तदवस्थान्तरम्, क्षिप्यत अपनीयते, अत एव प्रतिमाकल्पविधानादेवागमगतात्, गम्यत अवसीयते एतत् प्रस्तुतं मन्यते // 38 // (1. अतिसंकिलिटुं अटी.) प्रतिमाकल्पे धर्मकायपीडापि न सङ्गतेत्युक्तं प्राक्, तत्परिजिहीर्षुराह - एत्तो अतीव णेया, सुसिलिट्ठा धम्मकायपीडा वि / आंताइणो सकामा, तह तस्स अदीणचित्तस्स // 885 // 18/39