SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 238 १८-भिक्षप्रतिमा-पञ्चाशकम् गाथा-३२-३५ का पुनर्गुरुलाघवचिन्तेत्याह - अप्पपरिच्चाएणं, बहुतरगुणसाहणं जहिं होइ / सा गुरुलाघवचिंता, जम्हा णाओववण्ण त्ति // 878 // 18/32 अल्पपरित्यागेन स्तोकगुणपरित्यागेन, बहूनां गुणानां संसाधनं संसिद्धिः यत्र भवति जायते, सा गुरुलाघवचिन्ता यस्माद्धेतोायोपपन्ना इति न्यायसङ्गता // 32 // वेयावच्चुचियाणं, करणनिसेहेणमंतरायं ति / तं पि हु परिहरियव्वं, अइसुहुमो होउ एसो त्ति // 879 // 18/33 वैयावृत्त्योचितानां गुरुबालवृद्धादीनां, करणनिषेधेन प्रतिमाकल्प इति प्रतिपत्त्या, अन्तरायमिति वैयावृत्त्यान्तरायः, तदपि चान्तरायं परिहर्तव्यम् पारमार्थिकान्तरायाभावात्, अतिसूक्ष्मस्तु एष दोष [भवतु] इति / अतिसूक्ष्मे दोषे मूढता पुनरेष वैयावृत्त्यान्तरायाभिप्रायः, तत्साध्यस्यार्थस्यान्येनापि सम्पादयितुं शक्यत्वात्, तथा हि गच्छवासिनो गुरुबालवृद्धवैयावृत्त्येषु भूयांस एव यथाशक्ति प्रवर्तन्ते, न प्रतिमाकल्पस्य प्रतिपत्तरि सत्यपि तत्कार्यस्य क्षतिः, तस्माद् सदालम्बनमेतत् // 33 // ता तीए किरियाए, जोग्गयं उवगयाण नो गच्छे / हंदि उविक्खा णेया, अहिगयरगुणे असंतंमि // 880 // 18/34 तत्तस्मात् तस्याः क्रियायाः प्रतिमाप्रतिपत्त्यादिकायाः, योग्यतां क्षमत्वम् उपगतानां प्राप्तानाम्, नो नैव, गच्छे समुदाये, हन्तोपेक्षा प्रतिमाकल्पप्रतिपत्त्यौदासीन्यरूपा, ज्ञेया ज्ञातव्या, अधिकतरगुणे सूत्रवृद्धयादिरूपे, असत्यविद्यमाने, तस्मिंस्तु सति स्फुट एव तत्प्रतिषेधः, तस्मात्तत्कल्पोचितानां तत्प्रवृत्तिरेव विधेयेति भावः // 34 // परमो दिक्खुवयारो, जम्हा कप्पोचियाण वि णिसेहो / सति एयंमि उ भणिओ, पयडो च्चिय पुव्वसूरीहि // 881 // 18/35 ___परमः प्रधानो, दीक्षोपकारः प्रव्राजनीयोपकारो वर्तते / यस्मात्, कल्पोचितानामपि जिनकल्प-प्रतिमाकल्पोचितानामपि, निषेधः प्रतिषेधः, सति विद्यमाने, एतस्मिन् दीक्षोपकारे, भणित उक्तः, प्रकट एव स्फुट एव पूर्वसूरिभिः पूर्वाचार्यैः // 35 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy