________________ गाथा-२८-३१ _ १८-भिक्षुप्रतिमा-पञ्चाशकम् 237 एवं चिय कल्लाणं, जायइ एयस्स इहरहा न भवे / सव्वत्थावत्थोचियमिह कुसलं होइऽणुट्ठाणं // 874 // 18/28 एवमेवाधिकतरदोषसम्पादनैव, कल्याणमभिवाञ्छतारोग्यं, जायते प्रादुर्भवति एतस्य लूताग्रस्तकरनृपस्य, इतरथाऽन्यथा च्छेद-दाहादिनिषेधेनापमार्जनमात्रात् न भवेत् न स्यात्, कल्याणम्, अधिकतर-दोषोदयाद्विनाशप्राप्तेः, सर्वत्र सर्वस्मिन्नेव, पुरुषादौ, अवस्थोचितमवस्थायोग्यमिह कुशलं श्रेयोनिबन्धनत्वेन, भवति जायते, अनुष्ठानं कर्तव्यविशेषरूपम् // 28 // इय कम्मवाहिकिरियं, पव्वज्जं भावओ पवण्णस्स / सइ कुणमाणस्स तहा, एयमवत्थंतरं णेयं // 875 // 18/29 इत्येवं कर्मव्याधिक्रियां कर्मरोगचिकित्सां प्रव्रज्यां दीक्षां भावतो गुरु-लाघवापेक्षया, प्रपन्नस्याभ्युपगतवतः, सदा सर्वकालं कुर्वतः कर्मव्याधिचिकित्सां तथा तेन गच्छवासोक्तप्रकारेण, एतत्प्रतिमाकल्पानुष्ठानं अवस्थान्तरमधिकदोषहेत्वहिदष्टादिकल्पं तीव्रकर्मोदयरूपं ज्ञेयं ज्ञातव्यम्, तेनावस्थान्तररोगविशेषसमस्तुल्यः प्रतिमाकल्प इति स्थितम् / / 29 // अवस्थाविशेषोचित एवायं प्रतिमाकल्प: सामान्येन गच्छवासाद् गरीयानित्युपदर्शयन्निदमाहतह सुत्तबुड्ढिभावे, गच्छे सुत्थंमि दिक्खभावे य / पडिवज्जइ एयं खलु, न अण्णहा कप्पमवि एवं // 876 // 18/30 तथा तेन पूर्वप्रवृत्तव्यवहारेण, सूत्रवृद्धिभावे सूत्रार्थोभयप्रदानवृद्धिसम्भवे, तस्मिन्नस्खलिते प्रवर्तमान इत्यर्थः, [अथवा अकारप्रश्लेषात् 'सूत्राऽवृद्धिभावे = किञ्चिदूनदशपूर्वाधिकतरश्रुतग्रहणशक्त्यभावे इत्यर्थः-अटी.] गच्छे समुदाये / सुस्थे विवक्षितबाधापरित्यागेन, दीक्षा(क्ष्या)भावे चाधिकतरगुणप्रव्रजनीयाभावे च प्रतिपद्यत अभ्युपगच्छति एतं प्रतिमाकल्पम्, खलुशब्दो वाक्यालङ्कारे, न नैव अन्यथा प्रकारत्रयमहत्तमगुणसम्पादकाभावे, कल्पमपि धर्मसम्पादनसमर्थमपि, प्रतिमाकल्पमेवमागमोक्तनीत्या // 30 // इहरा न सुत्तगुरुता, तयभावे न दसपुव्विपडिसेहो / एत्थं सुजुत्तिजुत्तो, गुरुलाघवचिंतबज्झमि // 877 // 18/31 इतरथाऽन्यथा यथाकथञ्चित् प्रतिमाकल्पप्रतिपत्तौ, न सूत्रगुरूता न भगवदागमस्य गौरवम्, तदभावे सूत्रगुरुताया अभावे, न नैव दशपूर्विप्रतिषेधः चतुर्दश-दशपूर्वधरप्रतिमाकल्पप्रतिषेधः, अत्रैतस्मिन् प्रतिमाकल्पे, सुयुक्तियुक्तः संन्यायसङ्गतः, गुरुलाघवचिन्ताबाह्ये यथाकथञ्चित्करणीयतयाऽभ्युपगम्यमाने // 31 //