SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 232 १८-भिक्षुप्रतिमा-पञ्चाशकम् गाथा-९-११ आदिश्च मध्यश्चावसानं च त्रिधा / प्राक्क्लप्तदिवसस्यादिमध्यावसानम्, तस्मिन्, षड्गोचरहिण्डकः षड्वीथीहिण्डको, अयं प्रतिमाप्रतिपन्नः, ज्ञेयो ज्ञातव्यः, ज्ञाते सति 'अयं प्रतिमाप्रतिपन्नो महात्मा विहरति' इत्येवमवजाते, एकरात्रं वस्तु शीलमस्येति ज्ञातैकरात्रवासी / एकं च द्विकं च एकरात्रं द्विरात्रं च अज्ञाते लोकेनाऽविदिते, तस्य वस्तुं कल्पत इति शेषः // 8 // जायणपुच्छाणुण्णावणपण्हवागरणभासगो चेव / आगमणवियडगिहरुक्खमूलगावासयतिगो त्ति // 855 // 18/9 याचन-पृच्छा-ऽनुज्ञापन-प्रश्नव्याकरण-भाषकश्चैव / स हि भगवान् याचनविषयां भाषां प्रयोजनसमुत्पत्तौ भाषते / पृच्छाभाषां मार्गप्रश्नादौ, अनुज्ञापनभाषामवग्रहतृणकाष्ठादौ, प्रश्नव्याकरणभाषां प्रश्नोत्तरकालविभाविनी निरवद्यां वक्ति, आगमनविकटगृहवृक्षमूलकाऽवासकत्रिक इति / आगमनगृहमागन्तुकागारम्, यत्र यत्र कार्पटिकादयो विश्राम्यन्ति विकट[विवृत-अ.टी.]गृहमुपरिष्टादाच्छादितम्, अधश्च कृतावरणं सर्वदिक्प्रवेशयोग्यम् / वृक्षमूले यद् गृहं-साधुनिवासयोग्यम्, न तु यत्र पत्र-पुष्प-फल-बीजानि त्रसाश्च सम्पतन्ति, तस्य शेषसाधूनामपि अयोग्यत्वात्, एतदावासकत्रिकमस्येति तथोच्यते, एतान् वातिगच्छति, प्रविशति, आगमनविकटगृह-वृक्षमूलकाऽऽवासकातिग। [कत्रिक]इति // 9 // पुढवीकट्ठजहऽऽत्थिण्णसारसाई न अग्गिणो बीहे / कट्ठाइ पायलग्गं, णऽवणेति तहच्छिकणुगं वा // 856 // 18/10 पृथिवी च काष्ठं च यथास्तीर्णसारश्च शिलापट्टादिः, तेषु शयितुं स्थातुं शीलमस्य-पृथिवीकाष्ठ-यथास्तीर्णसारशायी नाग्नेः सकाशाद् बिभेति स्वयमागतात् कायोत्सर्गादिस्थितः सत्त्वसम्पन्नतया, दूरात्तु प्रत्यवायहेतुरग्निरयमिति परिहरत्येवासौ, कर्मसामर्थ्यात्तु तस्मिन्नापतिते केवलं भयं न विधत्ते, काष्ठादि काष्ठं कण्टकादि, पादलग्नं चरणसम्बद्धं नापनयति न विशोधयति, तथाऽक्षिकणुकं वा नयनप्रविष्टः सूक्ष्मपार्थिवाङ्गं वा न त्यजति, अवयवरूपं वा // 10 // जत्थऽत्थमेइ सूरो, न तओ ठाणा पयं पि संचरइ / पायादि न पखालइ एसो वियडोदगेणावि // 857 // 18/11 यत्र ग्रामारण्यादौ अस्तमेति पर्यन्तं व्रजति, सूर्य आदित्यः, न ततः स्थानात्, पदमपि पादविक्षेपमात्रमपि, सञ्चरति सङ्क्रामयति / पादादि पादपाणिप्रभृति, न प्रक्षालयति न धावति, एष प्रतिमाप्रतिपन्नो विकृतोदकेनापि प्रासुकसलिलेनापि // 11 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy