________________ गाथा-१२-१६ १८-भिक्षुप्रतिमा-पञ्चाशकम् 233 दुट्ठऽस्सहत्थिमाई, तओ भएणं पयं पि णोसरई। एमादिनियमसेवी, विहरति जाऽखंडिओ मासो // 858 // 18/12 ___ दुष्टाः दृप्ताः, अश्वहस्त्यादयो यान् लोको भयाद्विवर्जयति, ततस्तेभ्यो, भयेन भयमोहनीयसम्भवेनात्मपरिणामेन पदमपि चरणविक्रान्तिलक्षणं नो नैव सरति गच्छति, एवमादिनियमसेवी एवं प्रभृत्यागमोक्तनियमकारी, विहरति स्वचर्ययाऽवतिष्ठते / यावदखण्डितो मासः, परिपूर्ण इत्यर्थः // 12 // पच्छा गच्छमईई, एवं दुम्मासि तिमासि जा सत्त / नवरं दत्तिविवड्डी, जा सत्त उ सत्तमासीए // 859 // 18/13 ___ पश्चाद् गच्छमत्येति प्रविशति, एवं मासिकप्रतिमावत् द्विमासा त्रिमासा यावत्सप्तमासा। नवरं केवलं दत्तिविवृद्धिर्दत्तिसम्वर्धनम् / यावत् सप्त तु दत्तयः, सप्तमासायां प्रतिमायाम् // 13 // तत्तो य अट्ठमी खलु, हवइ इहं पढमसत्तराइंदी / तीऍ चउत्थचउत्थेणऽपाणएणं अह विसेसो // 860 // 18/14 ततश्च तदनन्तरम्, अष्टमी खलु प्रतिमा भवति, इह प्रथमसप्तरात्रिंदिवा सप्तरात्रिंदिनप्रमाणेत्यर्थः, तस्यामष्टप्रतिमायाम्, चतुर्थ-चतुर्थेन तपःकर्मणा, अशितव्यमिति शेषः, अपानकेन पानाहारविरहितेन अथ विशेषः प्राक्तनप्रतिमाभ्यः / / 14 / / अस्यामेव कर्तव्यशेषमाह - उत्ताणग पासल्ली, णेसज्जी वा वि ठाणगं ठाउं / सहउवसग्गे घोरे, दिव्वादी तत्थ अविकंपो // 861 // 18/15 उत्तानकवदुत्तानस्येव पार्श्वशयवत्( शयितः )निषद्यावान् निषद्यास्थितवत् नितरां शय्यास्थितराजवत्, वाऽपि स्थानकं स्थानविशेषं स्थित्वा कृत्वा, एतान् शरीराकारान् व्यवस्थाप्य, सहते क्षमते, प्रभविष्णु भावतः / उपसर्गान् उपसृज्यते समालिङ्ग्यते यैरात्मभावेन पुरुषैस्त उपसर्गास्तान्, घोरान् दारूणान् दिव्यादीन् दिव्यमानुषादिकृतान्, तत्र तस्यां प्रतिमायाम्, अविकम्पो मनःशरीराभ्यामचलः // 15 // दोच्चा वि एरिस च्चिय, बहिया गामाइयाण नवरं तु / उक्कुडलगंडसादी, दंडाययओ व्व ठाऊणं // 862 // 18/16 द्वितीयापि सप्तरात्रिंदिवा, ईदृश्येव व्यावर्णितरूपैव, बहिर्नामादिकानां बहिामनगरादिभ्यः,