________________ 224 १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-३०-३४ उपस्थापनया महाव्रतारोपणारूपया, ज्येष्ठो रत्नाधिकः विज्ञेयः पूर्व-पश्चिमजिनानां तत्साधूनाम्, प्रव्रज्यया तु सामायिकप्रतिपत्तिरूपया, तथा मध्यमानां मध्यमतीर्थकतसाधनां निरतिचारः सकलातिचाररहितः, ज्येष्ठो भवतीति सम्बन्धः // 29 / / उपस्थापनया ज्येष्ठ इत्युक्तम्, तद्विधिप्रतिपादनायाह - पढिए य कहिएँ अहिगएँ, परिहर उवठावणाएँ कप्पो त्ति / छक्कं तीहि विसुद्धं, सम्मं नवएण भेदेण // 824 // 17/30 पठिते च पाठतः शस्त्रपरिज्ञादौ, कथिते व्याख्यातेऽर्थप्रकाशनया, अधिगते सम्यग् ज्ञाते, परिहरन् प्रतिषिद्धाऽऽसेवनवर्जनेन / उपस्थापनया व्रतारोपणस्य कल्प्य इति योग्यः, किं परिहरन् ? षट्कं व्रतषट्कं जीवनिकायषट्कं च, त्रिभिर्विशुद्धमतीतवर्तमानभाविभिः कालैः विशुद्धं निन्दा-संवरण-प्रत्याख्यानैः, सम्यक् शास्त्रन्यायेन, नवकेन भेदेन कृतकारितानुमतिमनोवाक्कायलक्षणेन // 30 // पितिपुत्तमाइयाणं, समगं पत्ताण जे? पितिपभिई / थेवंतरे विलंबो, पण्णवणाए उवट्ठवणा // 825 // 17/31 पितापुत्रकादीनां जनकसुतादीनाम्, आदिशब्दात् पितृव्य-मातुलादिपरिग्रहः / समकं युगपत्, प्राप्तानामुपस्थापनाप्राप्तानाम्, ज्येष्ठा व्रतज्येष्ठाः, पितृप्रभृतयः क्रियन्ते, स्तोकान्तरे प्राप्तिमाश्रित्य, विलम्बः प्रतीक्षणं सुतादेरिति गम्यते, प्रज्ञापनया पित्राद्यवबोधनेन विशिष्टलग्नान्तराद्यभावे, उपस्थापना महाव्रतारोपणम् // 31 // सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स / मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं // 826 // 17/32 गमणागमणविहारे, सायं पाओ य पुरिमचरिमाणं / नियमेण पडिक्कमणं, अइयारो होउ वा मा वा // 827 // 17/33 मज्झिमगाण उ दोसे, कहंचि जायम्मि तक्खणा चेव / दोसपडिवारणाए, गुणावहं तह पडिक्कमणं // 828 // 17/34 सप्रतिक्रमणो धर्मः पूर्वस्य पश्चिमस्य च जिनस्य साधूनाम्, मध्यमकानां जिनानांअर्हद्वाविंशतः साधूनां कारणजाते समुत्पन्नकारणे, कारणसमूहे वा, प्रतिक्रमणं विधेयम्, न सर्वदा // 32 //