________________ गाथा-३५-३७ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् 225 गमनं चागमनं च विहारश्च चैत्यसाधुवन्दनादौ, गमनागमनविहारं तस्मिन् / सायं विकालवेलायां प्रातश्च प्रभाते, पूर्वचरमसाधूनाम्, नियमेन नियोगेन, प्रतिक्रमणमीर्यापथिकप्रतिक्रमणम्, दैवसिकं च रात्रिकरूपं च अतिचारो भवतु वा, मा वा भूत् // 33 / / __ मध्यमकानां मध्यमजिनसाधूनां दोषेऽपराधे कथञ्चित् प्रमादात् जाते समुत्पन्ने तत्क्षणादेव कालव्याक्षेपमन्तरेण, दोषप्रतिवारणया दोषनिषेधेन, [दोसपडियारणाया-दोषप्रतिकारज्ञाताद्-रोगचिकित्सोदाहरणेन। अटी.] गुणावहं गुणकारणम्, तथा प्रतिक्रमणं तेषामपि सायं प्रातश्चावश्यकरूपं न, [अपि] त्वनियमेन, तेष्वपि तीर्थेषु सामायिकादिसूत्रभावात् / तस्य च सन्ध्याकालप्रत्यासत्तिप्रतिबन्धस्थितित्वात् / अपरसन्ध्यायां दैवसिकम् , पूर्वसन्ध्यायां रात्रिकमनादिकालसंसिद्धश्चायं व्यवहारः // 34 / / (1. दोसपडियारणाया-अटी.) पुरिमेयरतित्थयराण मासकप्पो ठिओ विणिद्दिट्टो / मज्झिमगाण जिणाणं, अट्ठियओ एस विण्णेओ // 829 // 17/35 पूर्वेतरतीर्थकरसाधूनां मासकल्पो मासकल्पप्रकृतानुसार्यनुष्ठानविशेषः, न तु मासावस्थानमात्रं शेषक्रियाविकलमेव, स्थितो व्यवस्थितः, विनिर्दिष्टः कथितः, मध्यमकानां जिनानां मध्यमतीर्थकर-साधूनाम् अस्थितकोऽस्थितरूप एव, स्वल्पेनापि कारणेन गुणदोषापेक्षयाऽतदुल्लङ्घनाद् एष मासकल्पः विज्ञेयो ज्ञातव्यः // 35 / / पडिबंधो लहुयत्तं, न जणुवयारो न देसविण्णाणं / नाणाराहणमेए, दोसा अविहारपक्खम्मि // 830 // 17/36 प्रतिबन्धो द्रव्यादिप्रतिबन्धः, लघुकत्वं जनमध्ये लाघवम्, प्रतिबन्धः स हि तपस्वी, यस्य लाघवहेतुत्वात् प्रसिद्धं चैतद्विदुषामितरेषां च न जनोपकारो विभिन्नक्षेत्रावस्थितानां लोकानां धर्मार्थिकानामेकक्षेत्रनिवासे साधुभ्यो, न दर्शनम्, न पर्युपासनम्, विनयधर्मश्रवणादिभिर्महानुपकारो यथा, तेभ्य एव गुणव्यवस्थितेभ्यः, सर्वसत्वहितनिरतेभ्यः, यथागमं विहरद्भ्यः सम्पद्यते / न देशविज्ञानं नानादेशस्वरूपविज्ञानं समुदायनिर्वाहफलम्, स्वपरोपकारक्षमम्, प्रयोजनसमुत्पन्नैः नैकक्षेत्रनिवासे(सः) साधूनां सम्भवति / न नैवाज्ञाराधनं सर्वज्ञाज्ञासम्पादनम्, एते दोषा अविहारपक्षे, तस्मादागमानुसारी मासकल्प एव श्रेयान् / / 36 / / कालादिदोसओ पुण, न दव्वओ एस कीरई नियमा / भावेण उ कायव्वो, संथारगवच्चयादीहिं // 831 // 17/37 कालादिदोषतः पुनः दुःषमाकाल-मासकल्पायोग्यक्षेत्रादिदोषतः, न नैव, द्रव्यतः