________________ गाथा-२६-२९ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् 223 एतस्य कृतिकर्मणः, अकरणेऽसम्पादने, मानोऽभिमानः सेवितो भवति, विधेयाप्रवृत्तेः तथा च नीचकर्मबन्ध इति नीचैर्गोत्रकर्मबन्धो विनयाऽकरणात्, प्रवचनखिसा शासननिन्दा, विनयमूलधर्मप्रतिपादनेऽपि स्वयं वन्दनाप्रवृत्तेः / किमिदं प्रवचनमेव न प्रमाणं तेनैवं चेष्टते, अज्ञायका 'अज्ञा एते' इति खिसैव, लोकव्यवहारमप्येते न जानन्तीति भावः, अबोधिरबोधिलाभफलं कर्म, भववृद्धिः संसारवृद्धिः अर्हे वन्दनोचिते, कृतिकर्माऽकुर्वतामेते दोषाः / / 25 / / तथा चाह - पंचवतो खलु धम्मो, पुरिमस्स च पच्छिमस्स य जिणस्स / मज्झिमगाण जिणाणं, चउव्वतो होति विण्णेओ // 820 // 17/26 पञ्चव्रतः खलु पञ्चयामो धर्मः पूर्वस्य च ऋषभस्वामिनः, पश्चिमस्य च महावीरस्वामिनः जिनस्य वचनवृत्त्या, मध्यमकानां जिनानां द्वाविंशतः चतुर्वतश्चतुर्यामो धर्मो वचनवृत्त्या भवति, विज्ञेयो ज्ञातव्यः, परमार्थतस्त्वभिन्न एव / / 26 / / तथा चाह - नो अपरिग्गहियाए, इत्थीए जेण होइ परिभोगो / ता तव्विरईए च्चिय, अबंभविरइ त्ति पण्णाणं // 821 // 17/27 नो नैव, अपरिगृहीतायाः अस्वीकृतायाः स्त्रिया योषितः, येन कारणेन भवति जायते परिभोगः समासेवनम् / तत्तस्मात् तद्विरत्यैवऽब्रह्मविरतिरित्येवाऽब्रह्मचर्यविरतिः, प्रज्ञानां [एतत् प्रजानन्ति ये, ते प्रज्ञाः - अटी.] जानताम्, प्राज्ञानां वा प्रज्ञावताम् // 27|| दुण्हऽवि दुविहोऽवि ठिओ, एसो आजम्ममेव विण्णेओ / इय वइभेया दुविहो, एगविहो चेव तत्तेणं // 22 // 17/28 द्वयोरपि पूर्व-पश्चिमसाधूनां द्वाविंशतेश्च / द्विविधोऽपि पञ्चयाम-चतुर्यामरूपः स्थितो व्यवस्थितः, एष प्रस्तुतकल्पः / आजन्मैव सकलं जन्माभिव्याप्य विज्ञेयो ज्ञातव्यः, इत्येवमुक्तनीत्या, व्रतभेदाद् व्रतोच्चारणभेदात् / पञ्च-चतुर्वप्याख्यानात् / द्विविधोऽपि द्विप्रकार, एकविध एव तत्त्वेन परमार्थेनैकस्वरूप एव, प्रज्ञाविशेषकृतस्तु भगवद्भिः शिष्याऽनुग्रहाय विशेषः प्रतिपाद्यते // 28 // उवठावणाएँ जेट्टो, विण्णेओ पुरिमपच्छिमजिणाणं / पव्वज्जाए उ तहा, मज्झिमगाणं निरतियारो // 823 // 17/29