________________ 222 १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-२२-२५ राजावितीर्णचामराद्यलङ्कार ईश्वरः, तत्प्रभृतिः, तलवरमण्डवा[माडम्बिका]धिपाद्यैः, प्रविशद्भिनिष्क्रामद्भिश्च सपरिकरैः, तस्मिन् राजकुले, व्याघातोऽवधीरणा स्खलना, आत्मीयस्वाध्यायादिकार्यविघातो वा, तस्मिन्नेव खद्धे प्रभृते लभ्यमाने, लोभः प्रभूतलोभः खद्धे प्रभूते (= हैमदेशीनाममाला 2.67) प्रभूतार्थोऽयं खद्धः शब्दः देश्यः / उदाराणामुदारशरीराणां हस्त्यश्वस्त्रीपुरुषादीनां दर्शने सङ्गोऽभिष्वङ्गः, कस्यचित् स्यात् / गर्दा निरभिष्वङ्गा “यतय एते किल, तथाप्यदृष्टकल्याणवत्, सङ्गं कुर्वन्ति व्याक्षिप्तचेतसः परसमृद्धिषु" इत्येवं निन्दा / एते व्याघातयो दोषा राजपिण्डग्रहणे, पूर्वेतरसाधूनां प्रमादसम्भवात् इतरेषां मध्यमतीर्थकृत्साधूनां न व्याघातादयो दोषाः, अप्रमादात् प्रमादाभावाद्धेतोः तेषां हि भगवतामृजुप्रज्ञत्वाद्विशिष्टतराप्रमादसचिवं सर्वमेवानुष्ठानमतो विशेषः // 21 // अष्टविधत्वप्रतिपादनायाह - असणादीया चउरो, वत्थं पायं च कंबलं चेव / पाउंछणगं च तहा, अट्ठविहो रायपिंडो उ // 816 // 17/22 अशनादिका अशन-पान-खाद्य-स्वाद्याहाराः चत्वारः, वस्त्रं पात्रं च कम्बलश्चैव पादप्रोञ्छनकंच रजोहरणाख्यं तथा।अष्टविधो राजपिण्डस्तु, एषोऽष्टविधः परिवर्जनीयः // 22 // कितिकम्मं ति य दुविहं, अब्भुटाणं तहेव वंदणगं / समणेहि य समणीहि य, जहारिहं होति कायव्वं // 817 // 17/23 कृतिकर्मेति च द्विविधम् अभ्युत्थानमभिमुखमुत्थानम् तथैव वन्दनकं द्वादशावर्तादि, श्रमणैः साधुभिः श्रमणीभिश्च साध्वीभिः यथार्हं यथायोग्यं भवति कर्तव्यं विधेयम् / / 23 / / सव्वाहिं संजतीहिं, कितिकम्मं संजयाण कायव्वं / पुरिसोत्तमो त्ति धम्मो, सव्वजिणाणं पि तित्थेसु // 818 // 17/24 सर्वाभिः संयतीभिः संयमवतीभिः, कृतिकर्म प्रस्तुतं संयतानां साधूनां कर्तव्यमनुष्ठेयम् / पुरुषोत्तमः पुरुषप्रधानो धर्म इति कृत्वा, सर्वजिनानामपि चतुर्विंशतेरपि, तीर्थेषु प्रवचनेषु // 24 // व्यतिरेके दोषमाह - एयस्स अकरणंमी, माणो तह णीयकम्मबंधो त्ति / पवयणखिसाऽयाणग, अबोहि भववुड्डि अरिहंमि // 819 // 17/25