________________ गाथा-४५-४७ १६-प्रायश्चित्तविधि-पञ्चाशकम् 215 ते पुनस्त्रयोऽपि द्विसमयस्थितिकस्येर्यापथस्य कर्मणः, बन्धका, न पुनः सम्परायस्य संसारकारणस्य / शैलेशीप्रतिपन्ना शैलेशीव्यवस्थिता अबन्धका भवन्ति विज्ञेयाः सर्वस्यैव कर्मणः // 42 // ___ अप्रमत्तसंयतानामप्रमादव्यवस्थितसाधूनाम्, बन्धस्थितिर्भवत्यष्ट त्वष्टदैव मुहूर्ता नालिकाद्वयप्रमाणाः, उत्कर्षेणोत्कृष्टपदेन बन्धस्थितिरुत्कृष्टा, जघन्या लघ्वी भिन्नमुहूर्तं तु विज्ञेया जघन्या पुनरन्तर्मुहूर्तमवसेया। विशेषविषया चेयं बन्धस्थितिः, प्राणातिपातादौ शातावेदनीयाऽबन्धकस्याप्रमत्तयतेरप्रमादविचित्रतया समयोक्ताऽवसेया // 43 // ये तु ये पुनः, प्रमत्ताः प्रमत्तसंयताः [षष्ठगुणस्थानकवर्तिनः - अटी.] अनाकुट्टिकयाऽनुपेत्यकरणेन बन्धन्ति प्राणातिपातादिना कर्म स्वीकुर्वन्ति तेषामप्रमत्तसंयतानां बन्धस्थितिः, शातावेदनीयस्थितिः संवत्सरान् द्वादशमासपरिमाणान्, अष्ट त्वष्टैव उत्कर्षवत्युत्कृष्टा, इतरा जघन्या मुहूर्तस्यान्तरन्तर्मुहूर्तप्रमाणा // 44 // प्रस्तुतयोजनामाह - ता एवं चिय एयं, विहियाणुट्ठाणमेत्थ हवइ त्ति / कम्माणुबंधछेयणमणहं आलोयणादिजुयं // 789 // 16/45 तत् तस्माद् एवमेव सूक्ष्मविराधनासम्भवेन, एतत् प्रायश्चित्तम्, विहितानुष्ठानमत्र प्रक्रमे भवतीति सम्पद्यते / कर्मानुबन्धच्छेदनं कर्मसन्तानच्छेदकम् अनघं निर्दोषम्, आलोचनादियुतमालोचनादिसमन्वितम्। चैत्य-साधर्मिकवन्दनादिविहितानुष्ठानगोचरत्वादालोचनाद्यहँ विहितानुष्ठानमेवोक्तम् // 45 // तत्र प्रायश्चित्तत्वाभावमाशङ्कमानः परः [तत्शङ्कां] परिजिहीर्घश्च सूरिरिदमाह - विहिताणुट्ठाणत्तं, तस्स वि एवं ति ता कहं एयं / पच्छित्तं णणु ! भण्णति, समयंमि तहा विहाणाओ // 790 // 16/46 विहितानुष्ठानत्वं तस्याप्यालोचनादेः एवमित्युक्तनीत्या, तत्तस्मात्कथं केन प्रकारेण, एतदालोचनादि प्रायश्चित्तम् ननु भण्यते / अत्रोत्तरम्, समये सिद्धान्ते तथाविधालोचनादेः प्रायश्चित्तत्वेन, विधानात् विहितत्वात् // 46 / / एतदेव भावयति - विहियाणुढाणं चिय, पायच्छित्तं तदण्णहा न भवे / समए अभिहाणाओ, इत्थपसाहगं नियमा // 791 // 16/47