________________ 216 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-४८-५० विहितानुष्ठानमेव शास्त्रोक्तानुष्ठानमेव, प्रायश्चित्तं नान्यत्, तत् प्रायश्चित्तम्, अन्यथा विहितानुष्ठानत्वपरित्यागेन, न भवेत् न सम्भवेत् / समये सिद्धान्ते अभिधानात् हेतोः, इष्टार्थप्रसाधकं इष्टफलजनकम्, नियमात् नियमेन, अथवा पृथग् वाक्यम्-समये अभिधानात् प्रतिपादनात्, तेन विधीयमानत्वादित्यर्थः / इष्टार्थप्रसाधकं नियमा तद्भवतीति / अत्रापि पक्षे विहितानुष्ठानरूपमेव प्रायश्चित्तम् // 47 // साम्प्रतं सकलस्यैव साध्वनुष्ठानस्य विवक्षायाः प्रायश्चितत्वमुपपादयन्नाह - सव्वा वि य पव्वज्जा, पायच्छित्तं भवंतरकडाणं / पावाणं कम्माणं, ता एत्थं नत्थि दोसो त्ति // 792 // 16/48 सर्वापि च निरवशेषाणि च, धर्मव्यापाराङ्गीकरणेन, प्रव्रज्या व्रताभ्युपगमरूपा, प्रायश्चित्तं विशुद्धिहेतुः, भवान्तरकृतानां जन्मान्तरविहितानां पापानामशुभानां कर्मणां ज्ञानावरणादीनाम्, तत्तस्माद् अत्र विहितानुष्ठानस्य प्रायश्चित्तत्वे नास्ति दोष इति न कश्चन दोषः // 48 // किं पुनः सम्यक् चरितस्य प्रायश्चित्तस्य लिङ्गमित्याह - चिण्णस्स णवरि लिंगं, इमस्स पाएण अकरणं तस्स / दोसस्स तहा अण्णे, नियमं परिसुद्धए बिंति // 793 // 16/49 चीर्णस्य चरितस्य सम्यक्सेवितस्य, नवरं केवलं लिङ्गं लक्षणम्, अस्य प्रायश्चित्तस्य, प्रायेण बाहुल्येन, अकरणमनासेवनं, तस्य दोषस्य प्रायश्चित्तार्हस्य, तथाऽन्ये सूक्ष्मबुद्धयो, नियममकरणनियमं ग्रन्थिभेदवत्, तदबन्धरूपमासंसारं तद्दोषपरिहारस्वभावं, [परिशुद्धये] परिहारशुद्धये दोषविशुद्धये ब्रुवते प्रतिपादयन्ते // 49 / / एतदप्यन्यसूक्ष्मबुद्धिमतं सङ्गतमेवेत्याह - निच्छयणएण संजमठाणापातंमि जुज्झति इमं पि / तह चेव पयट्टाणं, भवविरहपराण साहूणं // 794 // 16/50 निश्चयनयेन निश्चयनयमतेन, संयमस्थानापाते देवगतावपि, तथाविधाऽव्यक्तभावसामायिकाऽप्रतिपाते युज्यते सुसङ्गत एव तदपि सूक्ष्मबुद्धिमतः तथा चैव भावितात्मतया प्रवतानां प्रवत्तिं विदधतां भवविरहपराणां संसारविरहप्रधानानां साधनां यतीनां ते ह्यत्यन्तसाधुधर्मा भावितात्मनो देवादिगतिष्वपि वर्तमानाः स्वभावत एव सुन्दरं कुर्वन्ति, नेतरत् // 50 // // षोडशं पञ्चाशकं प्रायश्चित्तविधिप्रकरणं समाप्तम् //