________________ 214 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-३९-४४ सत्यमेतत्, किन्तु तत्रापि च विहितानुष्ठाने, किन्तु सूक्ष्मा स्वल्पा विराधना ईर्यापथरूपा, अस्ति विद्यते, तस्यां सूक्ष्मविराधनायां सत्याम्-[अतस्तस्या विराधनायाः शुद्ध्यर्थं / इदं....अटी.] इदं आलोचनादि प्रायश्चित्तम् // 38 // एतदेवागमेन द्रढयन्नाह - सव्वावत्थासु जओ, पायं बंधो भवत्थजीवाणं / भणितो विचित्तभेदो, पुव्वायरिया तहा चाहू // 783 // 16/39 सर्वावस्थासु सराग-वीतराग-चेष्टारूपासु, यतो यस्मात्, प्रायो बाहुल्येन बन्धः सामान्यकर्मबन्धः, भवस्थजीवानां संसारस्थसत्त्वानां, प्रायोग्रहणमयोगिकेवलिव्यापारनिरासार्थम् / भणितः प्रतिपादितो, विचित्रभेदो नानाप्रकारः, पूर्वसूरयः पूर्वाचार्याः तथा चाहुः ब्रुवते // 39 // सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु / तह सुहुमसंपराया, छव्विहबंधा विणिद्दिट्ठा // 784 // 16/40 मोहाउयवज्जाणं, पगडीणं ते उ बंधगा भणिता / / उवसंतखीणमोहा, केवलिणो एगविहबंधा // 785 // 16/41 ते पुण दुसमयद्वितियस्स बंधगा न पुण संपरायस्स। सेलेसीपडिवण्णा, अबंधगा होति विण्णेया // 786 // 16/42 अपमत्तसंजयाणं, बंधठिती होति अट्ठ उ मुहुत्ता / उक्कोसेण जहण्णा, भिण्णमुहुत्तं तु विण्णेया // 787 // 16/43 जे उ पमत्ताणाउट्टियाएँ बंधंति तेसि बंधठिती / संवच्छराणि अट्ठ उ, उक्कोसियरा मुहुत्तंतो // 788 // 16/44 पंचगं। सप्तविधबन्धकाः भवन्ति प्राणिनः सत्त्वा, आयुर्वर्जितानां च प्रकृतीनामिति गम्यते / तथा सूक्ष्मसम्परायास्तद्गुणस्थानवर्तिनः षड्विधबन्धा विनिर्दिष्टाः कथिताः // 40 // मोहायुर्वर्जानां प्रकृतीनां कर्मप्रकृतीनाम्, ते तु सूक्ष्मसम्परायाः, बन्धका भणिता उक्ताः उपशान्तमोहाः क्षीणमोहाः केवलिन एते त्रयोऽपि एकविधबन्धाः शातावेदनीयबन्धका एव // 41 //