SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ गाथा-३५-३८ १६-प्रायश्चित्तविधि-पञ्चाशकम् 213 समयोक्तफला कर्मक्षयश्चासौ अनुबन्धव्यवच्छेदश्चेति कर्मक्षयानुबन्धव्यवच्छेदौ ताभ्याम् कर्मक्षयाऽनुबन्धव्यवच्छेदाभ्यां सर्वस्यैवापूर्वकरणं श्रेणिश्चेतिभावः // 34 // एवं निकाइयाण वि, कम्माणं भणियमेत्थ खवणं ति / तं पि य जुज्जइ एवं, तु भावियव्वं अतो एयं // 779 // 16/35 एवं स्थिते, निकाचितानामपि निकाचनाकरणाऽवस्थापितानामपि, कर्मणां ज्ञानावरणादीनां भणितं प्रतिपादितम्, अत्र श्रेण्यां क्षपणमिति क्षयकरणम् / यदित्यनुक्तमप्यर्थादाक्षिप्यते-तदपि च क्षणम्, युज्यते घटते, एवं त्वपूर्वकरणादिषु भावप्राधान्ये श्रेण्यां हि यन्निकाचितकर्मक्षपणमुक्तं तत् तथाविधशुभभावमन्तरेण, नान्यतः कुतश्चिद् भवितुमर्हति / तस्मात् स एव शुभभावः, कर्मक्षयात् करणमित्यगन्तव्यम् / भावयितव्यं भावनीयम् अत एतस्माद्धेतोः शुभभावलक्षणात्, एतत्प्रायश्चित्तं दोषविशुद्धिहेतुः, न विशिष्टभावमन्तरेण प्रायश्चित्तमपि स्वकार्यकारि सम्पद्यते, तस्माच्छ्रेयोऽर्थिना शुभभाव एवाश्रयितुं युक्तस्तदनुगतस्यैव प्रायश्चित्तानुष्ठानस्यापि स्वफलसाधकत्वात् // 35 / / अत्राह शिष्यः - विहियाणवाणंमी, एत्थं आलोयणादि जं भणियं / तं कह पायच्छित्तं, दोसाभावेण तस्स त्ति ? // 780 // 16/36 अह तं पि सदोसं चिय, तस्स विहाणं तु कह णु समयम्मि ? / न य नो पायच्छित्तं, इमं पि तह कित्तणाओ उ // 781 // 16/37 जुम्मं / विहितानुष्ठाने चैत्यसाधर्मिकवन्दनादौ, अत्राधिकारे, आलोचनादि, आदिशब्दादीर्यापथिकाप्रतिक्रमण-परिग्रहः यद्भणितं यदुक्तम् , तत्कथं प्रायश्चित्तं दोषाभावेन दोषविरहेण, तस्येति विहितानुष्ठानस्य, चैत्यवन्दनादेः // 36 // अथ तदपि विहितानुष्ठानमपि, सदोषमेव सापराधमेव, तस्य विहितानुष्ठानस्य, विधानं विधिरूपदेशः, कथं नु समये सिद्धान्ते नैव विधिः प्राप्नोतीत्यर्थः / न च नो प्रायश्चित्तं किन्तु प्रायश्चित्तम् इदमप्यालोचनादि / तथाकीर्तनात्तु प्रायश्चित्तत्वेन प्रतिपादनादेव // 37 // सूरिराह - भण्णइ पायच्छित्तं, विहियाणुट्ठाणगोयरं चेयं / तत्थ वि य किंतु सुहमा, विराहणा अस्थि तीऍ इमं // 782 // 16/38 भण्यते अत्रोत्तरम्, प्रायश्चित्तं विहितानुष्ठानगोचरं विहितानुष्ठानविषयम् चैतत् आलोचनादि,
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy