________________ 212 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-३१-३४ अधिकस्तत्प्रतिपक्षभूतो दोषविनिर्घातनसमर्थः, स शुभभावः, इह प्रक्रमे, भवति विशिष्टोऽतिशयवान् / न नैव, ओघतः सामान्येन, शुभभावमात्रान्तःपाती, समयनीत्यागमनीत्या // 30 // व्यतिरेकदोषमाह - इहरा बंभादीणं, आवस्सयकरणतो उ ओहेणं / पच्छित्तं ति विसुद्धी, ततो न दोसो समयसिद्धो // 775 // 16/31 इतरथाऽन्यथा, ब्राह्मादीनां ब्राह्मी-सुन्दरीप्रभृतीनां पूर्वजन्मनि, आवश्यककरणतस्तु दैवसिकादिप्रतिक्रमणविधानात्, एव ओघेन सामान्येन / प्रायश्चित्तमिति हेतोः विशुद्धिर्दोषविशुद्धिः, तत आवश्यकप्रायश्चित्तादेव न दोषः प्राप्नोति न भवति इत्यर्थः / समयसिद्धः सिद्धान्तप्रसिद्धः, स्त्रीनामगोत्रकर्मबन्धलक्षणः, अथ च प्रतिपादित एवासौ तस्मान्न शुभभावमात्राद्दोषविशुद्धिः // 31 // उपसंहरन्नाह - ता एयंमि पयत्तो, कायव्वो अप्पमत्तयाए उ / सतिबलजोगेण तहा, संवेगविसेसजोगेण // 776 // 16/32 तत् तस्मात्, एतस्मिन् विशिष्टशुभभावे, प्रयत्नः प्रकर्षः प्रकृष्टः यत्नः, कर्तव्यो विधेयः, अप्रमत्ततया त्वप्रमत्ततयैव, स्मृतिबलयोगेन स्मृतिसामर्थ्यव्यापारेण, तथा संवेगविशेषयोगेन संवेगातिशयसम्बन्धेन // 32 // विशिष्टभावमेवं सकलमपदर्शयन्निदमाह - एतेण पगारेणं, संवेगाइसयजोगतो चेव / अहिगयविसिट्ठभावो, तहा तहा होति नियमेणं // 777 // 16/33 एतेन प्राक्प्रस्तुतेन, प्रकारेण स्मृतिबलयोगादिना संवेगातिशययोगतश्चैव, संवेगप्रकर्षसम्बन्धाच्चैव, अधिकृतविशिष्टभावो दोषोन्मूलनसमर्थः / तथा तथा जीववीर्यातिशयेन, भवति सम्पद्यते, नियमेनावश्यंभावेन // 33 // तत्तो तव्विगमो खलु, अणुबंधावणयणं व होज्जाहि / जं इय अपुव्वकरणं, जायति सेढी य विहियफला // 778 // 16/34 ततः शुभभावात् तद्विगमः खलु अशुभाध्यवसायजातबन्धविगम एव, अनुबन्धापनयनं वा भवेत् शुभभावादेवाऽप्रकृष्टरूपात् कर्मणामनुबन्धभेदो भवेत्, न सर्वथा तद्विगमः / यद् यस्मात् इत्येवम्, अपूर्वकरणं श्रेण्यन्तर्गतं जायते प्रादुर्भवति, श्रेणिश्चोपशम-क्षपकश्रेणिरूपा विहितफला