________________ गाथा-२८-३० १६-प्रायश्चित्तविधि-पञ्चाशकम् 211 ह्युभयाज्ञामवधार्य तथैव कथयति / (4) धारणा च धारणाव्यवहारो यैरसकृत्प्रायश्चित्तं गुरुभ्यः श्रुतं, देशकालाद्यपेक्षया च कृतम् / ते तथैवावर्धाय परस्यापि तथाविधद्रव्यादिषु प्रायश्चित्तसमापन्नस्य कथयन्ति, तेन तथाविधधारणागोचरोऽयम् / (5) जीतं च जीतव्यवहारः, पञ्चमकः, जीतं चिरन्तनमाचरितकल्प इत्यनर्थान्तरम्, सोऽप्यागमिकसमाचरितत्वात्, अनादिसंसिद्धजीतव्यवहारान्तःपातित्वाच्च प्रमाणभूत एव, तेन विना व्यवहारपञ्चकत्वस्यानुपपत्तेः // 26 // एतदनुसारतः खलु पञ्चविधव्यवहारानुसारत एव, विचित्रमेतत्पारञ्चिकमिह वर्णितं कथितम् समये सिद्धान्ते / आसेवनादिभेदादासेवनाऽऽशातनाभेदात्, तत् पुनः पारञ्चिकं सूत्रादागमात्, ज्ञातव्यं विज्ञेयम् // 27 // एयं च एत्थ तत्तं, असुहज्झवसाणओ हवति बंधो / आणाविराहणाणुगमेयं पि य होति दट्ठव्वं // 772 // 16/28 सुहभावा तव्विगमो, सोऽवि य आणाणुगो णिओगेण / पच्छित्तमेस सम्मं, विसिट्ठओ चेव विण्णेओ // 773 // 16/29 जुम्मं / [अथोक्त] प्रायश्चित्त(तद्)दोषाविशुद्धिमुपदिशन्निदमाह - एतच्चात्र दशविधप्रायश्चित्ते प्रस्तुते, तत्त्वं परमार्थः अशुभाध्यवसानतोऽशुभाध्यवसायाद्, भवति जायते, बन्धो जीवप्रदेशकर्मस्कन्धान्योन्यगमात्मकः क्षीरोदकवत् परस्परानुप्रवेशेन, आज्ञाया भगवद्वचनरूपाया, विराधनाऽन्यथात्वकरणम्, तामनुगच्छतीति-आज्ञाविराधनानुगम्, एतदपि चाशुभाध्यवसानपि च, भवति दृष्टव्यं विज्ञेयम् / नाऽऽज्ञाविराधनमन्तरेणाशुभाध्यवसानं सम्भवतीति भावः // 28 // शुभभावाच्छुभाध्यवसायात्, तद्विगमः कर्मबन्धविगमः, सोऽपि च शुभभावः आज्ञानुगः आज्ञानुवर्तनपरः, तत्सहित इत्यर्थः / नियोगेन नियमेन, प्रायश्चित्तं दोषविशुद्धिहेतुः एष शुभभावः / सम्यगविपरीतं विशिष्टमेव विशिष्ट एव, न सामान्यरूपो, विज्ञेयो ज्ञातव्यः / प्रायश्चित्तक्रिया तु तदङ्गत्वेन कर्मक्षयार्थं वा / / 29 / / प्रायश्चित्तकर्मण्यपि विशिष्ट एव शुभभावो दोषविशुद्धिहेतुः, न शुभभावमात्रमित्युपनिदर्शयन्निदमाह - असुहज्झवसाणाओ, जो सुहभावो विसेसओ अहिगो / सो इह होति विसिट्ठो, न ओहतो समयनीतीए // 774 // 16/30 अशुभाध्यवसानात् दोषसमासेवनकालविषयात्, यः शुभभावस्तदुत्तरकालभावी, विशेषतो विशेषेण,