________________ 210 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-२४-२७ अण्णेसिं पुण तब्भवतदण्णवेक्खाएँ जे अजोग त्ति / चरणस्स ते इमे खलु, सलिंगचितिभेदमादीहिं // 768 // 16/24 अन्येषां पुनस्तन्त्रान्तरीयाणां स्वतन्त्रस्थितानां च तद्भवे तस्मिन् भवे, तदन्यापेक्षया दीक्षाऽनर्हा परमपुरुषापेक्षया, येऽयोग्या इत्यनुचितरूपाः, चरणस्य चरित्रस्य, तेऽयोग्या, इमे खल्विमे भवन्ति / स्वलिङ्गचैत्यभेदादिभिरुपलक्षिताः स्वलिङ्गभेदेन ऋषिहत्यादिना, चैत्यभेदेन प्रतिमाऽन्यथात्वाऽऽपादनेनाऽत्यन्ताऽयोग्याः खल्विमे भवन्तीत्येवमुपन्यासः / सामान्यतस्त्वनलसूत्रप्रतिपादिताऽन्ययोग्या भवन्त्येव / न च त एवं सक्लिष्टास्तेषां तज्जन्मन्यपि कथञ्चित्तद्योग्यत्वसम्भवात् // 24 // तदेतदन्यमतमपि पूर्वोक्तं कथञ्चित्समर्थयमानः सूरिरिदमाह - आसयविचित्तयाए, किलिट्ठयाए तहेव कम्माणं / अत्थस्स संभवातो, णेयं पि असंगयं चेव // 769 // 16/25 आशयविचित्रतयाऽध्यवसायविचित्रत्वेन जीवानां, क्लिष्टतया निरुपक्रमक्लिष्टत्वेन / तथैव कर्मणां चारित्रमोहनीयान्तःपातिनां ज्ञानावरणादीनां वा, अर्थस्य तदभावापेक्षयात्यन्तायोग्यत्वलक्षणस्य, सम्भवत्वात् सम्भवित्वात्, नैतदप्यन्यमतम्, असङ्गतमेव सर्वथाऽयुक्तरूपमेव किन्तु कथञ्चित्सङ्गतमपि / / 25 / / पाराञ्चिकप्रस्तावमेवाङ्गीकृत्येदमाह - आगममाई य जतो, ववहारो पंचहा विणिहिट्ठो / आगम सुय आणा धारणा य जीए य पंचमए // 770 // 16/26 एयाणुसारतो खलु, विचित्तमेयमिह वणियं समए / आसेवणादिभेदा, तं पुण सुत्ताउ णायव्वं // 771 // 16/27 आगमादिश्च यतो यस्माद्, व्यवहारः प्रायश्चित्तविषयः, पञ्चधा पञ्चविधः, निर्दिष्टः कथितः। कः पुनरसौ ?[तत्] परिज्ञानार्थं भेदनिर्देशः / (1) आगम इत्यागमव्यवहारः केवल-मनः पर्याया-ऽवधि-चतुर्दशपूर्वधरादिविषयः ते हि साक्षादुपायैर्वा पराभिप्रायमवितथं पश्यन्ति / नैतदृष्टे क्वचित् विसंवादः, तेन प्रत्यक्षरूपापन्न एवायं परगतसर्वापरानां जन्मभाविनामपि तथात्वेनोपलम्भात्। (2) श्रुतव्यवहारो द्वितीयो, ये श्रुतोपदेशेन प्रायश्चित्तं प्रयच्छन्ति, तद्विषयः (3) आज्ञाव्यवहारो देशान्तरव्यवहितयोद्वयोर्गीतार्थयोः प्रज्ञावत् पुरुषधारणाशक्तिगोचरः / स