________________ 209 गाथा-२०-२३ १६-प्रायश्चित्तविधि-पञ्चाशकम् मूलादिसु पुण अहिगयपुरिसाभावेण नत्थि वणचिंता / एतेसि पि सरूवं, वोच्छामि अहाणुपुव्वीए // 764 // 16/20 ___ मूलादिषु मूला-ऽनवस्थाप्य-पारञ्चिकेषु, पुनरधिकृतपुरुषाभावेन चरणपुरुषाभावेन, नास्ति न सम्भवति, व्रणचिन्ता द्रव्यव्रणसाम्यगता / एतेषामपि मूलादिनां स्वरूपं स्वलक्षणं वक्ष्याम्यभिधास्यामि यथानुपूर्व्या यथाक्रमम् // 20 // पाणातिवातपभितिसु, संकप्पकएसु चरणविगमम्मि / आउट्टे परिहारा, पुण वयठवणं तु मूलं ति // 765 // 16/21 प्राणातिपातप्रभृतिषु अपराधेषु, सङ्कल्पकृतेषु मनःसङ्कल्पविहितेषु, चरणविगमे चारित्रपरिणामविरामे सति, आवृत्ते आवृत्तपरिणामे पुनःकरणरूपेण, परिहारात् दोषपरिहारमाश्रित्य, पुनव्रतस्थापनं तूत्तरकालं व्रतन्यासः, मूलमिति मूलाहँ प्रायश्चित्तम् / / 21 / / मूलान्तरं सविषयमनवस्थाप्यमाह - साहम्मिगादितेयादितो तहा चरणविगमसंकेसे / णोचियतवेऽकयम्मी, ठविज्जति वएसु अणवट्ठो // 766 // 16/22 सार्मिकादिस्तेयादितः प्रथमादिशब्दादन्यतीथिकादिग्रहः, द्वितीयादिशब्दात् हस्ततलादिग्रहः, तथा तेन रूपेणागमोक्तेन, चरणविगमसङ्क्लेश चरणापगमनिबन्धनसङ्क्लेशे समुत्पन्ने सति, न नैव उचिततपस्यागमोक्ततपसि अकृतेऽनासेवितेऽविहित इति यावत् / स्थाप्यते व्रतेषु, नारोप्यते व्रतेष्वित्यर्थः / सोऽयमेवंविधः अनवस्थाप्यस्तदभेदोपचारात् प्रायश्चित्तमपि तथोच्यते // 22 // अनवस्थाप्यानन्तरं सविषयं पारञ्चिकमाह - अण्णोऽण्णमूढदुट्ठातिकरणतो तिव्वसंकिलेसंमि / तवसाऽतियारपारं, अंचति दिक्खिज्जति ततो य // 767 // 16/23 अन्योन्य-मूढ-दुष्टा-ऽतिकरणतोऽन्योन्यकरणात् समयप्रसिद्धात्, मूढकरणाद् दुष्टकरणाच्च / तीव्रसङ्क्लेशे सत्युत्कृष्टसङ्क्लेशपरिणामे, तपसा समयोक्तेन, अतिचारमपराधपारं पर्यन्तम् अञ्चति गच्छति / तदुच्छेदं विधत्त इति यावत्, दीक्ष्यतेऽभ्युपगम्यते ततश्चतपसा विशुद्धः सन्, इतरथा दीक्षार्होऽपि स न भवति, तथाविधाऽगमिकसङ्क्लेशप्राप्तत्वात् / स्वयं चायोग्यमात्मानं वेत्त्यसौ, ततोऽन्यस्य तदनधिकारित्वात् // 23 //