SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 208 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-१७-१९ सद्दादिएसु रागं, दोसं व मणे गओ तइयगम्मि / णाउं अणेसणिज्जं, भत्तादि विगिचण चउत्थे // 761 // 16/17 उस्सग्गेण विसुज्झति, अइयारो कोइ कोइ उ तवेणं / तह वि य असुज्झमाणे, छेयविसेसा विसोहंति // 762 // 16/18 तिगं / भिक्षाचर्यादिभिक्षाटनादिर्गमनागमनविषयः, [तेन] शुद्ध्यति शुद्धिमुपैति, अतिचारोऽपराधः / कश्चित् स्वल्पतया विकटनया त्वालोचनयैव, न क्रियान्तरमपेक्षते, द्वितीयः पुनरसमितोऽस्मीति, समित्युपयोगरहितः, कस्माद्धेतोः सहसा प्रयोजनमन्तरेण, अगुप्तो वा गुप्त्युपयोगरहितः, न किञ्चिदसमितत्वेऽगुप्तत्वे वा मम पुष्टालम्बनमस्ति / तस्मात् प्रतिक्रमणविषयोऽयमपराधो मिथ्यादुष्कृतेन शुद्ध्यति / 16 / / शब्दादिकेषु शब्दरूपादिषु, रागमभिष्वङ्गलक्षणम्, दोषं वाऽप्रीतिविकारलक्षणम्, मनस्यन्तः करणे गतः प्रतिपन्नोऽव्यवसायेन, तृतीयके मिश्रे, स चापराधः तदुभयार्हत्वादालोचनप्रतिक्रमणाभ्यां शुद्ध्यति, ज्ञात्वा विज्ञाय श्रुतानुसारिप्रज्ञया, अनेषणीयमकल्पनीयम्, भक्तादि विवेचनं भक्तपानविवेकश्च, चतुर्थे विवेकाहे, स चापराधोऽनेषणीयभक्तपानपरित्यागेन शुद्ध्यति // 17 // उत्सर्गेणापि कायोत्सर्गेणापि, शुद्ध्यति शुद्धिमासादयति, अतिचारः / कश्चिदनभिसन्धिपूर्वकप्राणातिपातादिविषयस्वप्नमनोविज्ञानजनितः, कश्चित्तु तपसा शुद्ध्यति, तपोऽर्हप्रायश्चित्तयोग्यः तथापि च तपसापि च, अशुद्ध्यमानमपराधम्, छेदविशेषात् छेदादिप्रायश्चित्तविशेषात्, विशोधयन्त्यपनयन्ति च, शोधनशक्तियुक्तः शुद्ध्यमानः ताच्छील्य-वयो-वचनशक्तिषु चानस् परस्मैपदीनामपि॥१८॥ कथं पुनः छेदशेषेभ्योऽपराधविशुद्धिरित्याह - छिज्जति दूसियभावो, तहोमरायणियभावकिरियाए / संवेगादिपभावा, सुज्झइ णाता तहाऽऽणाओ // 763 // 16/19 छिद्यते खण्डशोऽपनीयते प्रव्रज्यापर्यायो, दूषितभावो दूषिताध्यवसायः, तथा तेन प्रकारेण पञ्चकच्छेदादिना, अवमश्चासौ रात्निकश्च [इति अवमरात्निकः तस्य] अवमरात्निकस्य भावस्य क्रिया [अवमरात्निकभावक्रिया तया] अवमरानिकभावक्रियया, संवेगादिप्रभावात् संवेगनिर्वेदादिसामर्थ्यात्, शुद्ध्यति शुद्धिमनुभवति, छेदार्हप्रायश्चित्तयोरेवापराधो, न्यायात् न्यायेनागमदृष्टेन, तथाऽऽज्ञातः सर्वज्ञाज्ञायाः सकाशात् / अथवापराध-तद्वतोरभेदोपचारात्, ज्ञाता पुरुषः, संवेगादिप्रभावाच्छेद्यति तथा ज्ञातश्च / / 19 / /
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy