________________ 207 गाथा-१२-१६ १६-प्रायश्चित्तविधि-पञ्चाशकम् वार्यते निषिध्यते पञ्चमे व्रणे व्रणिनः पुरुषस्य // 11 // रोहेति वणं छठे, हितमितभोजी अभुंजमाणो वा / तत्तियमेत्तं छिज्जति, सत्तमए पूइमंसादी // 756 // 16/12 रोहयति निराश्रवीकरोति, व्रणं क्षतं षष्ठे द्रव्यव्रणस्थाने, हितमितभोजी पथ्यपरिमिताहारभोजी, अभुञ्जानो वा व्रणचिकित्सानुगुण्येन / तावन्मानं तावत्प्रमाणं छिद्यतेऽपनीयते, सप्तमके व्रणे, पूतिमांसादि दूषितमांसमेदप्रभृति // 12 // तह वि य अठायमाणे, गोणसखइयादि रप्पुए वा वि / कीरति तदंगछेदो, सअट्ठितो सेसरक्खट्ठा // 757 // 16/13 तथापि चैवमपि च विधीयमाने परिकर्मणि अतिष्ठति दोषव्याप्त्या प्रभवति, गोनसखादितादौ गोनसभक्षितादौ, वातप्रधानविषे रेफुके वापि वल्मीकरोगे, [क्रियते] तदङ्गच्छेदो दूषिताङ्गच्छेदः, सहास्थीभिर्वर्तते सास्थिकः / शेषरक्षार्थं दूषिताङ्गरक्षार्थम् // 13 // एतत्साम्येन भावव्रणोपदर्शनायाह - मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स / अवराहसल्लपभवो, भाववणो होति णायव्वो // 758 // 16/14 मूलोत्तरगुणरूपस्य अहिंसापिण्डविशुद्ध्यादिरूपस्य, तायिनस्त्रातुः संसारपरित्राणहेतुभूतस्य, परमचरणपुरुषस्य चरणं पुरुष इव चरणपुरुषः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य, अपराधशल्यप्रभवो दोषशल्यनिमितः भावव्रणो भावक्षतरूपः, भवति ज्ञातव्योऽवबोद्धव्यः // 14 // एसो एवंरूवो, सविगिच्छो एत्थ होइ विण्णेओ। सम्मं भावाणुगतो, णिउणाए जोगिबुद्धीए // 759 // 16/15 एष भावव्रणः, एवंरूप एवंलक्षणः, सचिकित्सः सप्रतीकारः अत्र प्रक्रमे, भवति विज्ञेयोऽवसेयः, सम्यग्भावानुगतोऽभिप्रायान्वितो, निपुणया सूक्ष्मया, योगिबुद्ध्या योगिबोधेन / योगिनो हि मतिरविपरीतस्वरूपा भवति, तेन यथास्वभावं वस्तु प्रत्येति, न तत्र विपर्ययसम्भवः // 15 // भिक्खायरियादि सुज्झति, अइयारो कोइ वियडणाए उ / बितिओ उ असमितो मि त्ति कीस? सहसा अगुत्तो वा // 760 // 16/16