SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 206 १६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-८-११ द्रव्यव्रणोदाहरणेन वक्ष्यमाणेन योजितं साम्यमानीतमेव प्रायश्चित्तम्, विद्वद्भिस्तज्ज्ञैः समये सिद्धान्ते, भावव्रणचिकित्सायां प्रस्तुतायां सम्यगिति सम्यक्स्वरूपं यतो यस्माद् इदं प्रत्यक्षरूपं यत्नं भणितमुक्तम् [श्रीभद्रबाहुस्वामिभिः - अटी.] ||7|| यदुक्तं समये तदाह - दुविहो कायंमि वणो, तब्भव आगंतुगो य णायव्वो / आगंतुगस्स कीरति, सल्लुद्धरणं न इतरस्स // 752 // 16/8 द्विविधो द्विप्रकारः, काये शरीरे, व्रणः क्षतरूपः तस्मिन्नेव काये भवतीति तद्भवः कायसमुत्थो गण्ड-पिटकादिः, आगन्तुकश्च कण्टकक्षतादिः ज्ञातव्यः / आगन्तुकस्य कण्टकादिक्षतस्य क्रियते विधीयते शल्योद्धरणं कण्टकाद्युद्धाररूपं नेतरस्य शरीरसम्भवस्य, तस्मिन्नाऽऽगन्तुकशल्याभावात् / / 8 / / द्रव्यव्रणक्रियोपदर्शनायाह - तणुओ अतिक्खतुंडो, असोणितो केवलं तयालग्गो। उद्धरिउं अवउज्झइ, सल्लो न मलिज्जइ वणो य // 753 // 16/9 तनुकः स्वरूपेण कृशः, अतीक्ष्णतुण्डोऽतीक्ष्णमुखः अशोणितोऽरुधिरप्राप्तो नाद्यापि शोणितं संस्पृशति, केवलं त्वचि त्वग्मात्रे लग्नः / उद्धृत्याऽऽकृष्य, अपोह्यतेऽपास्यते वा, बहिः प्रक्षिप्यत इति यावत् / शल्यः कण्टकादिभिः / शल्यशब्दः पुंल्लिङ्गोऽप्यस्ति प्राच्यानाम्, न मृद्यते व्रणश्च तावन्मात्रेणैवादोषहेतुरिति कृत्वा / / 9 / / लग्गुद्धियम्मि बीए, मलिज्जइ परमदूरगे सल्ले / उद्धरणमलणपूरण, दूरयरगए उ ततियगम्मि // 754 // 16/10 लग्नोद्धृते द्वितीये व्रणे, मृद्यते परं स एवेति गम्यते / अदूरगे शल्येऽदूरगामिनि शल्ये, लग्नोद्धृते यदि उद्धरणमर्दनपूरणानि शल्योद्धारव्रणमर्दनकर्णमलपूर्णानि क्रियन्ते / दूरतरगते दूरतरावगाढे तृतीये व्रणे // 10 // मा वेअणा उ तो उद्धरित्तु गालिंति सोणिय चउत्थे / रुज्झइ लहुँ ति ट्ठा, वारिज्जइ पंचमे वणिणो // 755 // 16/11 मा वेदना तु मा भूद् वेदना पुनः, ततः तद् उद्धृत्य शल्यं गालयन्ति निष्कासनं क्रियते, शोणितं रक्तम्, कियदपि चतुर्थे व्रणे अवरुध्यते व्रणेन लध्विति शीघ्रमेव चेष्टा प्रयासरूपा
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy