________________ गाथा-१६-१९ १५-आलोचनाविधि-पञ्चाशकम् 195 तथा परहिते युक्तः तत्सम्पादनोत्साहवान्, विशेषतो विशेषेण, सूक्ष्मभावा बन्धमोक्षादयः, तेषु कुशलमतिनिपुणबुद्धिः सूक्ष्मभावकुशलमतिः, भावो जीवाध्यवसायस्तद्विषयमनुमानं पराभिप्राय-परिच्छेदात्मकमविसंवादिप्रमाणं तद्विद्यतेऽस्येति भावानुमानवान्, तथा योग्य उचितः आलोचनाचार्य आलोचनागुरुः // 15 // 'क्रमेण'इत्युक्तम् तत्प्रकाशनायाह - दुविहेणऽणुलोमेणं, आसेवणवियडणाभिहाणेणं / आसेवणाणुलोमं, जं जह आसेवियं वियडे // 710 // 15/16 आलोयणाणुलोमं, गुरुगऽवराहे उ पच्छओ वियडे / पणगादिणा कमेणं, जह जह पच्छित्तवुड्डी उ // 711 // 15/17 द्विविधेन द्विप्रकारेण, अनुलोमेनानुकूलेन, क्रमेणेति वक्ष्यति, तस्य विशेषणमिदम्, आसेवनविकटनाभिधानेनासेवनाऽऽलोचना नाम्ना क्रमेण आसेवनानुलोमम्, स्वरूपतः कीदृक् ? यद् यथाऽऽसेवितं समाचरितं विकटयति गुरु लघु वा // 16 // ____ आलोचनानुलोमं पुनः कीदृशं स्वरूपतः गुरुकापराधास्तु गुरुतरप्रायश्चित्तयोग्यदोषान् / पश्चादुत्तरकालं विकटयति प्रकटयति, गुरोः प्रकाशयतीत्यर्थः / पञ्चकादिना लघुगुरुप्रायश्चित्तभाजा, क्रमेणानुपूर्वेण, यथा यथा प्रायश्चित्तवृद्धिस्तु पंचरात्रादेरारभ्य // 17 // तह आउट्टियदप्पप्पमायओ कप्पओ वऽजयणाए / कज्जे वा जयणाए, जहट्ठियं सव्वमालोए // 712 // 15/18 तथा आकुट्टिका-दर्प-प्रमादतः आकुटिकोपेत्यकरणम्, दो वल्गनादिः, प्रमादः पञ्चविधो मद्यादिः, तेभ्यः / कल्प आचारस्ततो, वाऽयतनयाऽप्रयत्नेन, यदासेवितमिति गम्यते / कार्ये वा पृष्टालम्बने कल्पान्तर्गते यतनया प्रयत्नेन, यथास्थितं यद यथावस्थितं सत्यमित्यर्थः / सर्वमालोचयति विशुद्धिकामः // 18 // (1. व जयणाए कज्जे वाऽजयणाए-अटी.) द्रव्यादिशुद्धीए[१५-८]इत्युक्तम्, तदुपदर्शनायाह - दव्वादीसु सुहेसुं, देया आलोयणा जतो तेसं / होति सुहभाववुड्डी, पाएण सुहा उ सुहहेऊ // 713 // 15/19 द्रव्यादिषु द्रव्यक्षेत्रभावकालेषु शुभेष्वनुकूलेषु, देया दातव्या / आलोचना स्वापराधप्रकाशना, यतस्तेषु शुभद्रव्यादिषु भवति शुभभाववृद्धिः कुशलाध्यवसायसमृद्धिः / प्रायेण