________________ 196 १५-आलोचनाविधि-पञ्चाशकम् गाथा-२०-२३ शुभा तु शुभैव, स्वरूपेण शुभहेतुः, भाविनश्च शुभस्याऽवन्ध्यकारणं सङ्क्लेशनिवृत्त्यात्मकत्वात् पुण्यानुबन्धिपुण्यहेतुत्वाच्च / / 19 / / शुभद्रव्यादीनेव व्याचष्टे - दव्वे खीरदुमादी, जिणभवणादी य होइ खेत्तम्मि / पुण्णतिहिपभिति काले, सुहोवओगादि भावे उ // 714 // 15/20 द्रव्ये द्रव्यविषया, विशुद्धिरिति प्रस्तावाद् गम्यते, क्षीरद्रुमादिः, आदिशब्दादशोकचम्पकादिपरिग्रहः / जिनभवनादिश्च भवति, क्षेत्रे क्षेत्रविषया, आदिशब्दादिक्षुशालिक्षेत्रादिपरिग्रहः / पूर्णा तिथिप्रभृतिः शुक्लपञ्चम्यादिः काले कालविषया विशुद्धिः / शुभोपयोगः शुभाध्यवसायः, आदिशब्दान्निमित्तशास्त्रगतशुभभावपरिग्रहः / भावे तु भावविषया विशुद्धिः // 20 // सुहदव्वादिसमुदए, पायं जं होइ भावसुद्धि त्ति / ता एयम्मि जएज्जा, एसा आणा जिणवराणं // 715 // 15/21 शुभद्रव्यादिसमुदये शुभद्रव्यक्षेत्रकालभावमेलके, प्रायो बाहुल्येन यद् यस्माद्, भवति जायते, भावशुद्धिरितिकृत्वा, तत्तस्माद् एतस्मिन् द्रव्यादौ समुदये यतेत यत्नं कुर्वीत, एषा आज्ञा जिनवराणां भगवताम् // 21 // आलोचनादिविधिरुक्तोऽधुनाऽऽलोचयितव्याऽपराधानाह - आलोएतव्वा पुण, अइयारा सुहुमबायरा सम्मं / नाणायारादिगया, पंचविहो सो य विण्णेओ // 716 // 15/22 आलोचयितव्याः प्रकाशनीयाः, पुनरतिचारा अपराधाः, सूक्ष्मबादराः सूत्रोक्ताः, सम्यङ् न्यायेन. ज्ञानाचारादिगताः ज्ञानदर्शनचारित्रतपोवीर्यविषयाः, पञ्चविधः पञ्चधा सच आचारः, विज्ञेयोऽवबोद्धव्यः // 22 // ज्ञानाचारभेदानाह - काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे / वंजणअत्थतदुभए, अट्ठविहो नाणमायारो // 717 // 15/23 काले [प्रथमैकवचनान्तत्वाद् वा काल एव ज्ञानाचारः - अटी.] कालविषयोऽकालस्वाध्यायपरिहारेण, विनये विनयविषयः / ज्ञानस्य ज्ञानिनां ज्ञानसाधनानां चाविनयत्यागेन, बहुमाने बहुमानविषयः, तेषामेवाभ्यन्तरसङ्क्लेशवर्जने, उपधाने उपधानविषयः, यथास्वमध्ययनादिषु