SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 194 १५-आलोचनाविधि-पञ्चाशकम् गाथा-१२-१५ अहम् इत्युक्तं प्राक्, तदुपदर्शनायाह - संविग्गो उ अमाई, मइमं कप्पट्टिओ अणासंसी / पण्णवणिज्जो सद्धो, आणाइत्तो दुकडतावी // 706 // 15/12 तव्विहिसमुस्सुगो खलु, अभिग्गहासेवणादिलिंगजुतो / आलोयणापयाणे, जोग्गो भणितो जिणिंदेहिं // 707 // 15/13 जुम्मं / ___ संविग्नस्तु संसारभीरुरेव, अमायी मायारहितः स्वस्थाशयः, मतिमान् बुद्धिसम्पन्नः, कल्पस्थितः स्थविरजातसमाप्तकल्पादिस्थितः / अनाशंसी निराशंसः सांसारिकफलनिरपेक्षः, प्रज्ञापनीयः सुखावबोधनीयः, श्राद्धः श्रद्धासमन्वितः / आज्ञागमः, तेन वित्तः प्रतीतः, आज्ञावित्तः, तदनुसारी दुष्कृततापी दुविहितपश्चात्तापी // 12 // तद्विधिसमुत्सुकः खलु, आलोचनाविध्यभिलाषातिरेकसम्पन्नः / अभिग्रहासेवनादिलिङ्गयुतः अभिग्रहसमाचरणाराधननिर्वाहादिलिङ्गयुक्तः / आलोचनाप्रदाने वितरणे योग्यः साधुः भणित उक्तः जिनेन्द्रैर्भगवद्भिः // 13 // 'अ गुरौ ददाती'त्युक्तं, तमाह - आयारवमोहारव, ववहारोवीलए पकुव्वी य / निज्जव अवायदंसी, अपरिस्सावी य बोद्धव्वो // 708 // 15/14 आचारोऽस्यास्तीति आचारवान् पञ्चविधाचारव्यवस्थितः, त्रिकमपराधजातं साधूनामवधारयतीति, आधारवानवधारणाशक्तिसम्पन्न इत्यर्थः / व्यवहारवान् व्यवहारः आगमश्रुताज्ञाधारणाजीताख्यपञ्चविधव्यवहारज्ञः / स्वदोषप्रच्छादनपरमपि सत्त्वमाह्लाद्यवचनामृतैरवपीडयति निष्कर्षयति दोषजातं तस्मादिति अवपीडकः / प्रकारयिता च प्रायश्चित्तमागतं साधौः प्रकर्ता सहायवृत्त्याऽऽरम्भयतीति प्रकारी प्रकारक इत्यर्थः / निर्यामकः साधुप्रायश्चित्तस्य निर्वाहकः, तथा विधत्ते यथा साधवस्तन्निर्वहन्ति ऐहलौकिक-पारलौकिकापायान, प्रायश्चित्ताकरणे दर्शयितुं शीलमस्येति अपायदर्शी सत्त्वविशुद्धिकरण इत्यर्थः / परिश्रावः परिगलनं भिन्नभाजनस्येव, स नास्यास्तीति अपरिश्रावी, यः परोक्तमन्यस्मै न कथयति सोऽपरिश्रावी [चः समुच्चये, अटी.] बोद्धव्यः अवगन्तव्यः // 14 // तह परहियम्मि जुत्तो, विसेसओ सुहुमभावकुसलमती / भावाणुमाणवं तह, जोग्गो आलोयणायरिओ // 709 // 15/15
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy