SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गाथा-९-११ १५-आलोचनाविधि-पञ्चाशकम् 193 __ अत्र आलोचनायां पुनरेष विधिर्वक्ष्यमाणः, अझै योग्यो, अर्हे योग्ये गुरौ, ददाति प्रयच्छति क्रमेणानुपूर्व्या, आसेवनादिना, खलु वक्ष्यमाणेन सम्यग् द्रव्यादिशुद्ध्या। यदैतेऽनुगुणास्तदालोचना विधेया प्रशस्तत्वादस्य वस्तुनः // 8 // कालो पुण एतीए, पक्खादी वण्णितो जिणिंदेहिं / पायं विसिट्ठगाए, पुव्वायरिया तथा चाहू // 703 // 15/9 कालोऽवसरः / पुनरेतस्या आलोचनायाः पक्षादिः पक्ष-चतुर्मासादिः वर्णित उक्तः, जिनेन्द्रर्भगवद्भिः प्रायो बाहुल्येन, विशिष्टकाया विशिष्टाया यतमानपुरुषविषयत्वेन, पूर्वाचार्याः पूर्वसूरयः तथा चाहुर्बुवते // 9 // पक्खियचाउम्मासे, आलोयण नियमसा उ दायव्वा / गहणं अभिग्गहाण य, पुव्वग्गहिए निवेएउं // 704 // 15/10 पाक्षिकचातुर्मास्ये मासे। स्वार्थे स्यञ् [ ] पाक्षिकचातुर्मासिकयोरित्यर्थः / आलोचना विकटना / नियमात्तु नियमेन, दातव्या विधेया ['आलोयण' इस्वत्वं प्राकृतत्वात्, 'नियमसा' सकारस्य प्राकृतत्वात् अटी.] / ग्रहणमभिनवानाम् अभिग्रहाणां च दण्डकप्रमार्जनादीनाम् / पूर्वगृहीतानविराधनया परिसमाधितान्, निवेद्य कथयित्वा गुरुभ्यः / अपरस्यास्तु प्रमादगर्भायाः प्रमादरहिताया अपि च, विशिष्टदेशकालान्तरिततथाविधगीतार्थोपसम्पत्त्याः, आगमोक्तनीत्या, अन्योऽपि समयः सम्भवतीत्यवसेयम् // 10 // किं पुनः पक्षादावभिमतेयमित्याह - जीयमिणं आणाओ, जयमाणस्स वि य दोससब्भावा / पम्हुसणपमायातो, जलकुंभमलादिणाएणं // 705 // 15/11 जीतमिदम् आचरितमिदं, चिरन्तनकल्प इत्यर्थः / आज्ञात आगमात् यतमानस्यापि चात्यन्ताप्रमत्तस्यापि च, छद्मस्थस्य दोषसद्भावादपराधसम्भवात् / प्रभ्रष्टं स्मरणं स्मरणाद्वा भ्रष्टं प्रस्मरणं विस्मरणमित्यर्थः / कदाचिद्विस्मृते प्रमादात् क्वचिदवसरे, यतमानस्यापि प्रमादसम्भवात् / प्रमत्तऽप्रमत्तगुणस्थानयोः परावर्तमानयोरन्तर्मुहूर्तमात्रत्वात् / जलकुम्भमलादिज्ञातेन जलाधारकुम्भोऽरञ्जरः, तस्मिन् मलः, आदिशब्दाद् घटोदञ्चनगृहकचवरादिपरिग्रहः, तज्ज्ञातेन तदुदाहरणेन, यथा जलकुम्भे प्रतिदिनं प्रक्षालितेऽपि कश्चिन्मलः सम्भवति, यः पक्षान्ते विशोध्यते, एवं गृहादिष्वपि, तथा प्रतिदिनं दैवसिकादिदोषशुद्धावपि पक्षान्ते पुनर्विशुद्धिरिष्यते // 11 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy