________________ 189 गाथा-४४-४६ १४-शीलाङ्गविधि-पञ्चाशकम् भवन्ति ज्ञातव्याः / एताभिः परीक्षाभिः साधुपरीक्षेह कर्तव्या सुवर्णपरीक्षावत् // 43 // साधनवाक्यनिगमनार्थमाह - तम्हा जे इह सुत्ते, साहुगुणा तेहि होइ सो साहू। अच्चंतसुपरिसुद्धेहिं मोक्खसिद्धि त्ति काऊण // 688 // 14/44 तस्माद्य इह सूत्रे पूर्वापराविरोधिनि तन्त्रयुक्तिगर्भे, साधुगुणाः प्रतिपादिताः, तैर्गुणैर्भवति स प्रस्तुतः साधुः, विशिष्टकार्यसाधनक्षमः / अत्यन्तसुपरिशुद्धः अतिनिर्दोषैः, मोक्षसिद्धिरिति कृत्वा, न पुनरगुणस्थितः, प्रद्वेषनिबन्धनमिदमुच्यते निर्गुणः साधुर्न भवतीति भावसामायिकक्षतिप्रसङ्गाद, येषामेव तु साधुगुणानां प्रत्यासत्या मोक्षकारणत्वम्, तेषामेव तदितरनिरासेन तद् व्यवस्थाप्यते, न ह्यकारणमेव स्वरूपतः कार्यं जनयितुमलम् / येषां तु साधुगुणानां मोक्षं प्रत्यबन्धहेतुत्वम्, तेषामेवेहोपदेशः प्रस्तुत इत्यनवद्यम् // 44 // उपसञ्जिहीर्षुराह - अलमेत्थ पसंगणं, सीलंगाइं हवंति एमेव / भावसमणाण सम्मं, अखंडचारित्तजुत्ताणं // 689 // 14/45 अलमत्र प्रसङ्गेन पर्याप्तं विस्तरेण, शीलाङ्गानि भवन्त्येवमेव भावतः परस्परसापेक्षाणि / न ह्येकं बहूनि वा भावविरतिमन्तरेण सम्भवतीति भावः / भावश्रमणानां भावसाधूनाम्, सम्यगवैपरीत्येन अखण्डचारित्रयुक्तानां सकलचारित्रभाजाम् // 45 // इय सीलंगजुया खलु, दुक्खंतकरा जिणेहि पण्णत्ता / भावपहाणा साहू, ण तु अण्णे दव्वलिंगधरा // 690 // 14/46 इत्येवमुक्तनीत्या शीलाङ्गयुताः खलु शीलाङ्गयुता एव / दुःखान्तकरा दुःखान्तकरणशीला, जिनैर्भगवद्भिः प्रज्ञप्ताः कथिताः, भावप्रधानाः साधवो न त्वन्ये [द्रव्यलिङ्गधरा] लिङ्गद्रव्यधरा भावनिरपेक्षास्तेषां प्रस्तुतकार्यासाधकत्वात् / न पुनस्ते [द्रव्यलिङ्गिनः] भावसाधूनां द्वेषविषयाः, सर्वजीवानां स्वकर्मसामोपपत्तेः, बलवद्धि कर्म तदन्यथाप्रवृत्तिं जनयति / उक्तं च - अन्यथा शास्त्रगर्भिण्या, धिया धीरोऽर्थमीहते / स्वामीव बलवत् कर्म, विदधाति तमन्यथा // [ ] // 46 //