SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 188 १४-शीलाविधि-पञ्चाशकम् गाथा-३९-४३ साधुगुणविकलो भवति साधुः, नैव भवतीति भावः // 38 // जुत्तीसुवण्णगं पुण, सुवण्णवण्णं तु जदिवि कीरेज्जा / न हु होति तं सुवण्णं, सेसेहि गुणेहिऽसंतेहिं // 683 // 14/39 युक्तिसुवर्णकं पुनः त्रपुप्रभृतिद्रव्यान्तरमिश्रम्, सुवर्णवर्णं तु सुवर्णप्रतिच्छायं पुनः यद्यपि क्रियते, कथञ्चित् युक्तिज्ञेन / न हु नैव भवति तद् युक्तिसुवर्णं, सुवर्णं सत्यमेव न भवति / शेषैर्वर्णापेक्षया विषघातित्वादिभिः गुणैरसद्भिरविद्यमानैः // 39 // जे इह सुत्ते भणिया, साहुगुणा तेहिँ होइ सो साहू / वण्णेणं जच्चसुवण्णगं व संते गुणणिहिम्मि // 684 // 14/40 य इह सूत्रे प्रमाणभूते भणिताः प्रतिपादिताः, साधुगुणाः प्रशमादयः तैर्भवति स प्रस्तुतः साधुः वर्णेन सतोपलक्षितं वा, जात्यसुवर्णकमिव जात्यकनकमिव, सति विद्यमाने गुणनिधौ गुणराशौ, विषघाति-रसायनादौ // 40 // जो साहू गुणरहिओ, भिक्खं हिंडेति न होति सो साहू / वण्णेणं जुत्तिसुवण्णगं वऽसंते गुणणिहिम्मि // 685 // 14/41 यः साधुः गुणरहितः, प्रशमादिविकलः, भिक्षां हिण्डते पर्यटति केवलमेव, न भवति स साधुः प्रस्तुतमोक्षकार्यासाधनत्वात् / वर्णेन पीतादिनोपलक्षितं युक्तिसुवर्णकमिव व्यवहारायोग्यम्, असति गुणनिधौ गुणराशौ, यथा तत्सुवर्ण जात्यं न भवत्येवं साधुरपि // 41 // उद्दिटुकडं भुंजति, छक्कायपमद्दणो घरं कुणति / पच्चक्खं च जलगते, जो पियइ कहं नु सो साहू ? // 686 // 14/42 उद्दिष्टकृतं सामान्येनाधाकर्मादिदोषदुष्टम्, भुङ्क्ते समुपजीवति / षट्कायप्रमर्दनो निष्कारणमेव तहिंसाप्रवृत्तोऽत्यन्तनिरपेक्षः, गृहं मदीयोपाश्रय इति बुद्ध्या करोति, तत्रात्यन्तप्रतिबद्धः, प्रत्यक्षं च जलगतान् पूतरकादीन् यः पिबति, कथं नु [स]साधुर्भवति नैवेति भावः // 42 // अण्णे उ कसादीया, किल एते एत्थ होति णायव्वा / एताहि परिक्खाहिं, साहुपरिक्खेह कायव्वा // 687 // 14/43 अन्ये तु विद्वांसः, कषादिकाः कषादयः, किलैतद्गाथोक्ता उद्दिष्टकृतादयश्चत्वारः अत्र प्रस्तावे
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy