________________ 187 गाथा-३५-३८ १४-शीलाङ्गविधि-पञ्चाशकम् एवं दिटुंतगुणा, सज्झमि वि एत्थ होंति णायव्वा / न हि साहम्माभावे, पायं जं होइ दिटुंतो // 679 // 14/35 ___ एवं दृष्टान्तगुणाः सुवर्णगुणाः, साध्येऽपि साध्यधर्मोपलक्षितेऽपि धर्मिणि साधौ, अत्राधिकारे भवन्ति ज्ञातव्या विज्ञेयाः / न हि नैव साधाभावे समानधर्मताया अभावे सादृश्याभाव इत्यर्थः / प्रायो बाहुल्येन / यद् यस्माद् भवति दृष्टान्तः, साधाभावेन भवतीत्यर्थः / अतः दृष्टान्तधर्मिणो गुणतः साम्यमङ्गीकर्तव्यम् // 35 / / कीदृक् पुनः सुवर्णं दृष्टान्तत्वेनोपात्तं विषघातित्वादिगुणोपेतं भवतीत्याह चउकारणपरिसुद्धं, कसछेयतावतालणाए य / जं तं विसघातिरसायणादिगुणसंजुयं होइ // 680 // 14/36 चतुष्कारणपरिशुद्धं चतुभिर्विशुद्धिकारणैः परिशुद्धिमागतैः कषेण च्छेदेन तापेन ताडनया च यदेवंविधं सुवर्णम्, तद्विषघाति-रसायनादिगुणसंयुतं भवति नान्यत् // 36 // दार्टान्तिकः चतुष्कारणपरिशुद्धिमाह - इयरम्मि कसादीया, विसिट्टलेसा तहेगसारत्तं / अवगारिणि अणुकंपा, वसणे अइणिच्चलं चित्तं // 681 // 14/37 इतरस्मिन् साधौ, कषादिकाः कषादयः [कषछेदतापताडनापरिशुद्ध्यः अटी.] विशिष्टलेश्या शभलेश्या / तथैकसारत्वं क्रियाभावाश्रयणेनैकरूपत्वम, अपकारिण्यपसर्गकारिणि अनकम्पा न त द्वेषः / व्यसने व्यस्यत्यपनयति श्रेयस्तदिति व्यसनं, चित्तविह्वलतापादनसमर्थम्, श्रेयोविघ्नहेतुः कार्यम्, बाह्यमाध्यात्मिकंवा, तस्मिन् अतिनिश्चलमतिनिष्प्रकम्पम्, चित्तं मनः / जात्यसुवर्णरेखातुल्या विशिष्टलेश्या सुवर्णैकसारत्वकल्पच्छेदः (1) तापशुद्धिकल्पा (2) अपकार्यनुकम्पास्वरुपाऽप्रच्युतिकल्पा (3) अचित्ततावस्था ताडनासमा चित्तनिश्चलता (4) // 37 // अगुणत्वादित्यस्यार्थं विवृण्वन्नाह - तं कसिणगुणोवेयं, होइ सुवण्णं न सेसयं जुत्ती / न वि नाम रूवमेत्तेण एवमगुणो भवति साहू // 682 // 14/38 तत् सुवर्णं कृत्स्नगुणोपेतं सर्वगुणसमन्वितं भवति सुवर्ण व्यवहारानुपाति लोके, न शेषकं नान्यद् युक्तिरिति युक्तिसुवर्णम् / कषच्छेदतापायोग्यम् / न नैव अपिशब्दो भिन्नक्रमः / नाम इति सम्भावने रूपमात्रेणापि विषयमात्रेणापि एवं युक्तिसुवर्णवद् अगुणो निर्गुणोऽभिमत