________________ 186 १४-शीलाङ्गविधि-पञ्चाशकम् गाथा-३१-३४ सत्थुत्तगुणो साहू, न सेस इति णे पइण्ण इह हेऊ / / अगुणत्ता इति णेओ, दिटुंतो पुण सुवण्णं व // 675 // 14/31 शास्त्रोक्तगुणः साधुन शेष इति इह नोऽस्माकं प्रतिज्ञा विप्रतिषेधाभ्याम्, इह हेतुरगुणत्वादिति ज्ञेयः, सगुणत्वादिति विधावक्षिप्तो दृष्टव्यः / दृष्टान्तः पुनयुक्तिसुवर्णवत्, सत्यसुवर्णवच्चेति विधौ // 31 // सुवर्णगुणप्रतिपादनायाह - विसघाइ 1 रसायण 2 मंगलट्ठ 3 विणीए 4 पयाहिणावत्ते 5 / गरुए६ अडज्झ७ कुत्थे८, अट्ठ सुवण्णे गुणा होति // 676 // 14/32 विषघाति विषं हन्तुं शीलमस्य रसायनं वयस्तम्भहेतुः, मङ्गलार्थं मङ्गलप्रयोजनम्, विनयवद्विनीतम्, मृदुत्वात् कार्यसौकोपपत्तेः / प्रदक्षिणावर्तमग्निप्रतप्त-प्रनृत्यदवस्थं पूर्वादिदिग्विभागेन प्रत्यावर्तते, गुरुकं सारत्वाद् भारवत् / अदाह्यमग्निना शुद्धम् , 'न दह्यतेऽग्नौ सुवर्ण नक्षीणम् 'इति वचनात् / अविद्यमानकोथम् अकोथनं न शेषद्रव्यवत् कोथमुपैति, अष्ट सुवर्णे गुणा भवन्ति / तत्स्वरूपाव्यतिरेकवर्तिनः सदा तेषां तत्रोपलम्भात् // 32 // साधुधर्मिण्यपि साधोः दृष्टान्तगतगुणसाम्यमाह - इय मोहविसं घायइ, सिवोवएसा रसायणं होति / गुणओ य मंगलटुं, कुणति विणीओ य जोग्गो त्ति // 677 // 14/33 मग्गणुसारि पयाहिण, गंभीरो गरुयओ तहा होइ / कोहग्गिणा अडज्झो, अकुत्थो सइ सीलभावेण // 678 // 14/34 इत्येवं मोहविषं चेतनापरिहारकारित्वात्, घातयति विनाशयति, साधुः शिवोपदेशान्मोक्षोपदेशाद् रसायनं भवति ।गुणतश्च ज्ञानादिगुणेभ्यः, मङ्गलार्थ मङ्गलप्रयोजनं करोति, विनीतश्च योग्य इति शिक्षादिसौकर्यात् / / 33 / / मार्गानुसारी क्षयोपशमविशेषात् / प्रदक्षिणो भवत्युनुकूलो धर्मकार्येषु / गम्भीरो गम्भीराशयो, गुरुकस्तथा भवति सारत्वात् नार्कतूलादिवदनवस्थितः, लघुनो हि द्रव्यस्येतश्चेतश्च प्रेरणं संभवति, नेतरस्य / क्रोधाग्निनाऽदाह्यः, शुद्धस्वरूपत्वात् / अकोथोऽपूतिभावः / सदा शीलभावेन सर्वदा चारित्रसद्भावेन // 34 //