________________ गाथा-१८-२१ १४-शीलाविधि-पञ्चाशकम् 183 व्यतिरेकमाह - उस्सुत्ता पुण बाहति, समतिवियप्पसुद्धा वि नियमेणं / गीतणिसिद्धपवज्जणरूवा नवरं निरणुबंधा // 662 // 14/18 उत्सूत्रा सूत्रातिक्रान्ता, पुनर्बाधते विरतिभावमिति पूर्वेण सम्बन्धः / स्वमतिविकल्पशुद्धापि स्वोत्प्रेक्षितबुद्धिविकल्पशुद्धापि, प्रवृत्तिः नियमेनावश्यन्तया, गीतनिषिद्धप्रतिपादनरूपा गीतार्थ-निषिद्धप्रतिपत्तिरूपा / नवरं केवलं प्रवृत्तिरनभिनिवेशाद्धेतोः सामर्थ्य लब्धात् निरनुबन्धा कर्मानुबन्धरहिता // 18 // इयरा उ अभिणिवेसा, इयरा न य मूलछेज्जविरहेण / होएसा एत्तो च्चिय, पुव्वायरिया इमं चाहू // 663 // 14/19 इतरा तु साभिनिवेशा, गीतार्थनिषिद्धप्रतिपत्तिरूपा, स्वमतिविकल्पशुद्धा चोत्सूत्रा प्रवृत्तिरभिनिवेशाद्धेतोः इतरा सकर्मानुबन्धा क्लिष्टाशयत्वात् / रागद्वेषमोहोत्कर्षे च स्वाग्रहोत्कर्षप्रवृत्तेः, उक्तं च - रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः / एतदुत्कर्षतो ज्ञेयो, हन्तोत्कर्षस्य तत्त्वतः [ अष्टकप्रकरण गाथा 170] न च मूलोच्छेद्यविरहेण चारित्रमूलोच्छेद्यभावेन द्वादशकषायोदये मूलच्छेदविधानात्, भवति सम्भवति एषा साऽभिनिवेशोत्सूत्रप्रतिपत्तिः / अत एवाभिनिवेशादेव पूर्वाचार्याः पूर्वसूरय [श्रीभद्रबाहुस्वामिमिश्रा-अटी.] इदं च प्रस्तुतार्थसंवाद्येव आहुर्बुवते // 19 // [तद्यथा] गीयत्थो य विहारो, बीओ गीयत्थमीसओ भणितो / एत्तो तइयविहारो, नाणुण्णाओ जिणवरेहिं // 664 // 14/20 गीतार्थश्च विहारो, यः केवलगीताथैरेवानुष्ठीयते, द्वितीयो गीतार्थमिश्रको भणितः यो गीतार्थाधिष्ठितैरगीताथैः क्रियते / अतो द्वयात्, तृतीयविहारोऽगीतार्थानामेव केवलानां यः स, नानुज्ञातो नानुमतः, प्रतिषिद्ध इत्यर्थः, जिनवरैः सर्वज्ञैः // 20 // गीयस्स न उस्सुत्ता, तज्जुत्तस्सेयरस्स वि तहेव / नियमेण चरणवं जं, न जाउ आणं विलंघेइ // 665 // 14/21 गीतस्य गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, तद्युक्तस्य गीतार्थयुक्तस्य, इतरस्याप्यगीतार्थस्य तथैव