________________ गाथा-१०-१३ १४-शीलाविधि-पञ्चाशकम् ___ 181 अधिकारार्थाभिधानायाह - एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमंतेहिं / एकं पि सुपरिसुद्धं, सिलंगं सेससब्भावे // 654 // 14/10 अत्र शीलाङ्गप्रस्तावे, इदं वक्ष्यमाणं विज्ञेयमवगन्तव्यम् एदम्पर्यं तु भावार्थरूपं वाक्यतात्पर्यं पुनः बुद्धिमद्भिः प्रज्ञावद्भिः / एकमपि क्रियारूपं सुपरिशुद्धं निर्दोषं शीलाझं शीलावयवरुपं शेषसद्भावे भावतः शेषशीलाङ्गसत्तायाम् // 10 // अत्रैवार्थे दृष्टान्तमाह - एक्को वाऽऽयपएसोऽसंखेयपएससंगओ जह तु / एतं पि तहा णेयं, सतत्तचाओ इहरहा उ // 655 // 14/11 एकोऽप्यात्मप्रदेशो जीवप्रदेशः असङ्ख्येयप्रदेशसङ्गतो यथा तु समानजातीयैरसङ्ख्येयैः प्रदेशैरविभागवृत्तिर्या सैव, न पुनरेकाक्येव कदाचित्तदपरनिरपेक्षः / एतदपि शीलाङ्गं तथाविभागवृत्त्या ज्ञेयम् / स्वतत्त्वत्यागः स्वरूपत्यागः, इतरथा तु विभागवृत्ताविष्यमाणायाम् // 11 // युक्तिमाह - जम्हा समग्गमेयं पि सव्वसावज्जयोगविरती उ / तत्तेणेगसरूवं, न खंडरूवत्तणमुवेति // 656 // 14/12 यस्मात् कारणात् समग्रं परिपूर्णम् एतदपि शीलम्, सर्वसावद्ययोगविरतिस्तु सर्वेभ्यः सावद्ययोगेभ्यो विरतिः, स्वभावमेव तत्त्वेन परमार्थेन एकस्वरूपं सकलरूपम्, न खण्डरूपत्वमुपैति, न कदाचित् खण्डश आत्मलाभं लभते // 12 // एयं च एत्थ एवं, विरतीभावं पडुच्च दट्ठव्वं / न उ बझं पि पवित्तिं, जं सा भावं विणा वि भवे // 657 // 14/13 एतच्च शीलम् अत्र प्रक्रमे / एवं सकलरूपं विरतिभावं विरतिपरिणाममान्तरम्, प्रतीत्य द्रष्टव्यम्, न तु बाह्यामपि प्रवृत्तिं क्रियारूपाम् / यद् यस्मात् सा बाह्या प्रवृत्तिः, भावं विनाप्यशुभपरिणाममन्तरेणापि भवेद् भावसाधोः // 13 / /