________________ 180 १४-शीलाविधि-पञ्चाशकम् गाथा-६-९ करणादीनि कृतकारितानुमतिरूपाणि, त्रीणि योगा व्यापाररूपत्वात् / मन आदीनि तु मनःप्रभृतीनि पुनर्भवन्ति करणानि, व्यापार प्रति साधकतमत्वात् / आहारादयः संज्ञाश्चतुरिति चतस्रः, श्रोत्रादीनीन्द्रियाणि पञ्च // 4 // भूम्यादयो नव जीवाः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः / अजीवकायस्तु दशमो यः परिहार्यः [= अजीवात्मकः पदार्थ सार्थः] / श्रमणधर्मस्तु साधुधर्मः, पुनः क्षान्त्यादिर्दशप्रकारो दशभेदः स चायं क्षान्तिर्दिवार्जवमुक्तितप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपः / एवं स्थिते मूलपदकलापे, भावनैषा भङ्गविभावना इत्यर्थः // 5 // न करति मणेण आहारसण्णविप्पजढगो उ नियमेणं / सोतिदियसंवुडो पुढविकायआरंभ खंतिजुओ // 650 // 14/6 न करोति मनसा, आहारसंज्ञाविप्रयुक्तस्तु नियमेन, श्रोत्रेन्द्रियसंवृतः पृथ्वीकायारम्भं कर्मतापन्नम्, क्षान्तियुक्तः शान्तिसम्पन्नः // 6 / / इय मद्दवादिजोगा, पुढविक्काए भवंति दस भेया / आउक्कायादीसु वि, इय एते पिंडियं तु सयं // 651 // 14/7 सोइंदिएण एयं, सेसेहि वि जं इमं तओ पंच / आहारसण्णजोगा, इय सेसाहिं सहस्सदुगं // 652 // 14/8 एयं मणेण वइमादिएसु एयं ति छस्सहस्साइं / न करइ सेसेहिं पि य एए सव्वे वि अट्ठारा // 653 // 14/9 तिगं / इत्यनेन प्रकारेण मार्दवादियोगान्मार्दवादिपदाभिसम्बन्धात् / पृथिवीकाये भवन्ति दश भेदाः / अप्कायादिष्वपीति अनेन च प्रकारेण प्रत्येकं दश / एते सर्वेऽपि पिण्डितं तु शतं भवन्ति शतसङ्ख्याः लभन्ते / / 7 / / श्रोत्रेन्द्रियेणैतच्छतं लब्धम्, शेषैरपि चक्षुरादिभिश्चतुर्भिः, यद् यस्माद्, इदं प्रत्येकं शतम् / ततः पञ्चशतानि, आहारसज्ञायोगादित्येवं शेषाभिरपि भयादिसंज्ञादिभिः, सहस्त्रद्विकं सर्वाभिरपि, यतः पञ्चशतानि चतुर्गुणानि सहस्रद्वयं भवति / / 8 / / ___एतन्मनसा लब्धम् सहस्रद्वयम्, वागादिकेषु वाचि काये चेत्यर्थः, एतदिति सहस्रद्वयम्, षट्सहस्राणि समुदितानि, न करोतीत्यनेन सहस्रषष्टकं लब्धम्, शेषाभ्यामपि च द्वाभ्याम् एतानि सर्वाण्यप्यष्टादश सहस्राणि भवन्तीति गम्यते // 9 //