________________ 178 १३-पिण्डविधान-पञ्चाशकम् गाथा-५० द्वात्रिंशत् कवलाः मानं प्रमाणमुच्यते [प्रथमा बहुवचनान्तत्वात् कवलाः, अत्र छन्दसः हेतोः 'कवल' इति इस्वत्वम् अटी.] / रागद्वेषाभ्यां धूमाङ्गारम्, अल्पान्तरत्वाद्धूमशब्दस्य पूर्वनिपातः लघ्वक्षरा-ऽसखि-ईद्रुत्-स्वरादि-अल्पस्वर-अय॑म्-एकम् [ सिद्धहेम-३.१.१६०] / रागाच्चारित्रा(त्रे)ङ्गारो द्वेषाद्धूमः / वैयावृत्त्यादयः कारणम्, आदिशब्दाद् वेदनादिग्रहः, यथोक्तम् - वेयण वेयावच्चे, इरियडाए य संजमट्ठाए। तह पाणवत्तियाए, छठें पुण धम्मचिंताए ॥[ओघनियुक्ति गाथा-५८२] अविधावन्यथाकरणे, अतिचारोऽतिक्रमः, तस्मादविधिर्न कार्यः // 49 // प्रकरणोपसंहारमाह - एयं णाऊणं जो, सव्वं चिय सुत्तमाणतो कुणति / काउं संजमकायं, सो भवविरहं लहुं लहति // 644 // 13/50 एतत् पूर्वोक्तं ज्ञात्वाऽवगम्य, यः साधुः, सर्वमेव सप्तचत्वारिंशद्दोषजातं सूत्रमानतः सूत्रप्रमाणतः सूत्रप्रामाण्येन, करोति विधत्ते यथागमं विधिप्रतिषेधाभ्यां कृत्वा संयमकायं चारित्रात्मानं संयमराशि वा, स प्रस्तुतः साधुः भवविरहं संसारविरहं लघु शीघ्रमेव लभतेऽवाप्नोति // 50 // (1. कायो-अटी.) // पिण्डविधि-पञ्चाशकं त्रयोदशं समाप्तम् //