________________ 177 गाथा-४५-४९ 1 ३-पिण्डविधान-पञ्चाशकम् इहरा न हिंसगस्स वि, दोसो पिसियादिभोत्तु कम्माओ। जं तस्सिद्धिपसंगो, एयं लोगागमविरुद्धं // 639 // 13/45 इतरथाज्ञायोगमन्तरेण दोषाभावेऽभ्युपगम्यमाने, न हिंसकस्यापि हिंस्रस्यापि दोषो बन्धलक्षणः, पिशितादिमांसादिप्राण्युपमर्दैन भुङ्क्त्वा [पिसियादिभोत्तु....भोक्तुः,....भोक्तुं - अटी.] कर्मणः सकाशाद्यद् यस्मात् सिद्धिप्रसङ्गो दोषाभावसिद्धिप्रसङ्गः / एतद्दोषाभावापादनं लोकागमविरुद्धं लोकागमाभ्यां बाधितं वर्त्तते तस्मादाज्ञायोग एव दोषापहारसमर्थः // 45 // ता तहसंकप्पो च्चिय, एत्थं दुट्ठो त्ति इच्छियव्वमिणं / तदभावपरिणाणं, उवओगादीहिं उ जतीणं // 640 // 13/46 तत्तस्मात् तथासङ्कल्प एवाधिकारम्भसङ्कल्प एव अत्र पिण्डग्रहणे, दुष्ट इति दोषहेतुः एष्टव्यमिदम्, तदभावपरिज्ञानं सङ्कल्पदोषाभावपरिज्ञानं दोषाभावपरिज्ञानं वा / उपयोगादिभिस्तूपयोगनिमित्तशुद्ध्यादिभिः पुनः, यतीनामिदं च निमित्तचूलिकादिग्रन्थानुसारेण ज्ञेयम् / तत्र सूक्ष्मेक्षिकयोक्तत्वात् // 46 // उद्गमादयो यत्प्रभवाः, तत्ख्यापनायाह - गिहिसाहूभयपहवा, उग्गमउप्पायणेसणादोसा / एए तु मंडलीए, णेया संजोयणादीया // 641 // 13/47 गृहिसाधूभयप्रभवा उद्गमोत्पादनैषणादोषाः, प्राक् प्रतिपादिताः, एते तु वक्ष्यमाणाः मण्डल्यां ज्ञेयाः संयोजनादिकाः॥४७॥ एतानेवाह - संयोजणा पमाणे, इंगाले धूम कारणे चेव / उवगरण भत्तपाणे, सबाहिरब्भंतरा पढमा // 642 // 13/48 संयोजना प्रमाणमङ्गारो धूमः कारणं चैव पञ्चैते / तत्र संयोजनामाह-उपकरण उपकरणविषया भक्तपाने भक्तपानविषया सबाह्याभ्यन्तरा प्रथमा संयोजना, बहिरुपकरणसंयोजना, अन्तरुपकरणसंयोजना / बहिर्भक्तपानसंयोजना [अन्तर्भक्तपानसंयोजना, मुखसंयोजना च] समयप्रसिद्धा सर्वैव // 48 // प्रमाणादीनाह - बत्तीस कवल माणं, रागद्दोसेहिं धूमइंगालं / वेयावच्चादीया, कारणमविहिंमि अइयारो // 643 // 13/49