________________ गाथा-४१-४४ 176 १३-पिण्डविधान-पञ्चाशकम् चैत्यवन्दनादेश्च निरवद्यत्वं प्रतिविशेषः // 40 / / एतदेव समर्थयितुमाह - न खलु परिणाममेत्तं, पदाणकाले असक्कियारहियं / गिहिणो तणयं तु जइं, दूसइ आणाएँ पडिबद्धं // 635 // 13/41 नैव परिणाममात्रं शुभसङ्कल्परूपं कर्तृ प्रदानकाले, सामान्येनैव असत्क्रियारहितमधिकाऽऽरम्भरहितम्, गृहिणः सम्बन्धि [तणयं सत्कं अ.टी.] पुनर्यतिं कर्मतापन्नं दूषयति। नैव दूषयतीत्यर्थः / कीदृशं यति? आज्ञायां सर्वज्ञवचनरूपायां प्रतिबद्धं व्यवस्थितम् // 41 // विशेषतः शिष्टगेहेष्वनटनम्[१४/३४ गाथायाम्] इत्युक्तम्, तन्निराकरणायाह - सिट्ठा वि य केइ इहं, विसेसओ धम्मसत्थकुसलमती / इय न कुणंति वि अणडणमेवं भिक्खाएँ वतिमेत्तं // 636 // 13/42 शिष्टा अपि केचिदिह विशेषतो विशेषेण धर्मशास्त्रकुशलमतयो धर्मागमनिष्णातबुद्धय इत्येवं स्वरूपमारम्भं न कुर्वन्त्यपि न निवर्तयन्त्यपि, अनटनमेवमुक्तनीत्या भिक्षाया वाङ्मात्रं परोक्तम् // 42 // दुक्करयं अह एयं, जइधम्मो दुक्करो चिय पसिद्धं / किं पुण ? एस पयत्तो, मोक्खफलत्तेण एयस्स // 637 // 13/43 दुष्करमेव दुष्करम् अथैतदाकृताकारितासङ्कल्पितरूपग्रहणम् / सूरिराह / यतिधर्मः साधुधर्मो दुष्कर एवाऽसुकर एव, प्रसिद्धं प्रख्यातमेतत् / किं पुनरेष प्रयत्नो विशुद्धपिण्डग्रहणविषयः? मोक्षफलत्वेन मोक्षः फलमस्येति मोक्षफलस्तद्भावस्तत्वं तेन, मोक्षहेतुतयेति भावः, एतस्य साधोः [यतिधर्मस्य-अटी.] // 43 / / ननु योषणाप्रवृत्तस्यापि यतेः कथञ्चिदशुद्धाहारपरिभोगो भवेत् तत्र किं दोषः स्यान्न वा'इत्याशङ्क्याह - भोगंमि कम्मवावारदारतोऽवित्थ दोसपडिसेहो / णेओ आणाजोएण कम्मुणो चित्तयाए य // 638 // 13/44 अशुद्धाहारभोगेऽपि कर्मव्यापारद्वारतः [अपि - अटी.] कर्मव्यापारद्वारेण कर्मसामर्थ्यमुखेनेत्यर्थः / अत्र प्रस्तुते दोषप्रतिषेधो [ज्ञेयः] विज्ञेयो दोषनिषेधोऽवगन्तव्यः / आज्ञायोगेनाऽऽगमयोगेन हेतुना, कर्मणो ज्ञानावरणादेः चित्रतया च // 44 //