________________ गाथा-३७-४० १३-पिण्डविधान-पञ्चाशकम् 175 अत्रोत्तरमाह - भण्णति विभिण्णविसयं, देयं अहिगिच्च एत्थ विण्णेओ। उद्देसिगादिचाओ, न सोचिआरंभविसओ उ // 631 // 13/37 भण्यतेऽत्र समाधिः, विभिन्नविषयं देयं दातव्यमन्नादि, अधिकृत्यात्र प्रस्तावे विज्ञेयो ज्ञातव्य औद्देशिकादित्याग औद्देशिकादिपरिहारः, न स्वोचितारम्भविषयस्तु स्वस्यै स्वार्थमुचितश्वासावारम्भश्च स्वोचितारम्भः, प्रतिदिनकरणीयस्तद्विषयस्तु तद्गोचरः / पुनर्नोद्देशिकादित्यागः // 37|| संभवइ य एसो वि हु, केसिंची सूयगादिभावे वि / अविसेसुवलंभाओ, तत्थ वि तह लाभसिद्धीओ // 632 // 13/38 सम्भवति चैषोऽपि हुः, स्वोचितारम्भः केषाञ्चिच्छिष्टगृहस्थानां सूतकादिभावेऽपि सूतकादिप्रतिषिद्धप्रवेशकारणसद्भावेऽपि, अविशेषोपलम्भात् स्वोचितारम्भस्य / तत्रापि सूतकादौ तथा सूतकाद्यवस्थायामिव लाभसिद्धेः / कृपि(प)णानाथदुःखितप्रवृत्तीनामाहार-लाभदर्शनात् // 38 // एवंविहेसु पायं, धम्मट्ठा णेव होइ आरंभो / गिहिसु परिणाममेत्तं, संतं पि य नेव दुटुं ति // 633 // 13/39 एवंविधेषु मध्यस्थशिष्टगृहस्थेषु प्रायो बाहुल्येन, धर्मार्थं धर्मनिमित्तं, नैव भवत्यारम्भः स्वोचितारम्भः, गृहिषु गृहस्थेषु परिणाममात्रं शुभाध्यवसायमानं 'धर्माय ममैतत् स्यात्' इत्यादीत्येवंरूपमधिकारम् परिहारेण सदपि च विद्यमानमपि च नैव दुष्टमिति, आहारदोषेष्वनधिकृतत्वात्तस्य, न हि धर्मसङ्कल्पमात्रमधिकाऽऽरम्भान्तरविरहितं क्वचिदाहारदोषत्वेन प्रसिद्धम्, तस्माददुष्टमेवेति // 39 // तहकिरियाऽभावाओ, सद्धामेत्ताउ कुसलजोगाओ / असहकिरियादिरहियं, तं हंदुचितं तदण्णं व // 634 // 13/40 तथा क्रियाभावादधिकाऽऽरम्भक्रियाया असम्भवाद्धेतोः, श्रद्धामात्रात्, 'सर्वं धर्माय मम सम्पद्यताम्' इत्येवं मनोव्यापारात् कुशलयोगात् सुन्दरवाक्कायव्यापाररूपाद् अशुभक्रियादिरहितं सावधक्रियावाग्व्यापाराभिसन्धिवर्जितं तत् परिणाममात्रं हन्तोचितं योग्यमप्रतिषिद्धं वर्तते। तदन्यवत् चैत्यवन्दनादिशुभपरिणामवत्, न खल्वस्य धर्मदानसङ्कल्पपरिणाममात्रस्य