SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 164 ___१२-साधुसामाचारी-पञ्चाशकम् गाथा-४०-४३ एतच्च चिन्तनीयमित्युपदिशन्नाह - दुग्गतरयणागररयणगहणतुल्लं जईण किच्चं ति / आयतिफलमद्धवसाहणं च णिउणं मुणेयव्वं // 584 // 12/40 दुर्गतस्य दरिद्रस्य रत्नाकरे प्राप्ते, रत्नग्रहणमिति लालसया, यथा तत्तुल्यं दुर्गतरत्नाकररत्नग्रहणतुल्यम्, यतीनां साधूनां कृत्यमिति कर्तव्यम् / न तत्र साधोरभिलाषो परमोऽस्ति / आयतिफलमागामिकालभाविकफलम्, अध्रुवाणि साधनानि वीर्यादीनि यस्मिंस्तत्तथा अध्रुवसाधनं च निपुणं सूक्ष्मं यथा भवत्येवं मन्तव्यं ज्ञातव्यं / परिणामसुन्दरं फलं यतीनां कृत्यमध्रुवमनो-वाक्काय-वीर्य-बुद्धि-पाटव-क्षयोपशमादिसाधनञ्चेतिभावः // 40 // (1. आयतफलं अटी.) शेषसाधुनिमन्त्रणप्रवृत्तेनापि गुरुपृच्छाऽवश्यं विधेयेत्युपदिशन्नाह - इयरेसिं अक्खित्ते, गुरुपुच्छाए णिओगकरणं ति / एवमिणं परिसुद्धं, वेयावच्चं तु अकएऽवि // 585 // 12/41 इतरेषामपि साधूनां सम्बन्धिनि आक्षिप्ते ढौकिते कार्य इति गम्यते / साधुभिरेव विधेयतया निर्दिष्ट इत्यर्थः गुरुपृच्छा[ याः] नियोगकरणमिति नियमविधानम् / एवमिदं परिशुद्धमनवयं वैयावृत्त्यं तु व्यावृत्तभावरूपम् अकृतेऽपि तं कथञ्चित्कार्ये, गुरवो हि न यथा कथञ्चित् साधुकार्य प्रतिषेधन्ति, अतोऽधिकृतेऽपि निजरैव साधोः, निर्व्याजपरिणामत्वेन प्रवृत्तत्वात्, अधिकगुणापेक्षया त्वन्यथाप्रवृत्तेः, तत्र तु गुरवः स एव च साधुः ज्ञात्वा प्रमाणम् // 41 // (1. वैयावच्चे अटी.) उक्ता निमन्त्रणा, उपसम्पत् समाचारीमाह - उवसंपया य तिविहा, नाणे तह दंसणे चरित्ते य / दंसणनाणे तिविहा, दुविहा य चरित्तमट्ठाए // 586 // 12/42 उपसम्पच्चात्मनिवेदनारूपा त्रिविधा / ज्ञाने ज्ञानविषया तथा दर्शने चारित्रे च, दर्शनज्ञाने दर्शन-ज्ञानविषया त्रिविधा, द्विविधा च चरित्रार्थाय चारित्रप्रयोजनाय // 42 // एतद्विवरणायाह - वत्तणसंधणगहणे, सुत्तत्थोभयगया उ एस त्ति / वेयावच्चे खमणे, काले पुण आवकहियादी // 587 // 12/43 वर्तन-सन्धान-ग्रहणे।वर्तनं परावर्त्तनमाम्नायतद्विषया। सन्धानं विच्छिन्नस्य पुनरनुसन्धानमनुस्यूतता / ग्रहणं वाचना / एतदर्थमुपसम्पत् / पुनरैकैका त्रिविधा / सूत्रार्थोभयगता तु ज्ञान
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy