SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ गाथा-३६-३९ _ १२-साधुसामाचारी-पञ्चाशकम् 163 आत्मलब्धिरेव स्वपोषाधिकं कस्माद् गृह्णाति ? येनास्य दानसम्भव इत्याशङ्क्याह - नाणादुवग्गहे सति, अहिगे गहणं इमस्सऽणुण्णायं / दोण्ह वि इट्ठफलं तं, अतिगंभीराण धीराण // 580 // 12/36 ज्ञानाद्युपग्रहे ज्ञानदर्शनचारित्रोपष्टम्भे, सति सम्भवति अधिकेऽधिकविषयं ग्रहणमस्य आत्मलब्धिकस्य, अनुज्ञातमनुमतं द्वयोरपि दातृप्रतिगृहीत्रोः साध्वोरिति गम्यते / इष्टफलं तदभिप्रेतफलं दानं ग्रहणं च कीदृशोः द्वयोः अतिगम्भीरयोरुत्कृष्टगम्भीराशययोः धीरयोः स्थिरयोर्भावप्राधान्यात् / / 36 / / तदेवोपदर्शयितुमाह - गहणे वि णिज्जरा खलु, अग्गहणे वि य दुविहा वि बंधो य / भावो एत्थ णिमित्तं, आणासुद्धो असुद्धो य // 581 // 12/37 ग्रहणेऽप्यादानेऽप्यन्यसाधुना भक्तादेः, निर्जरा खलु कर्मनिर्जरैव दानपरिणामवतः / अग्रहणेऽपि चान्यसाधुना, निर्जरैवेति वर्तते / द्विविधापि ग्रहणाऽग्रहणाभ्यां बन्धश्चाशुद्धपरिणामस्य कर्मबन्धश्च, भावोऽध्यवसायः अत्र निमित्तं कारणम्, निर्जरा-बन्धयोः प्रत्येकम् आज्ञाशुद्धोऽशुद्धश्चागमिक इतरश्च // 37|| उक्ता च्छन्दना, निमन्त्रणामाह - सज्झायादुव्वाओ, गुरुकिच्चे सेसगे असंतम्मि / तं पुच्छिऊण कज्जे, सेसाण णिमंतणं कुज्जा // 582 // 12/38 स्वाध्यायात् स्वाध्यायकरणात् उव्वाउ त्ति 'श्रान्तो, गुरुकृत्ये गुरुकार्ये शेषके कृतशेषे, असति अविद्यमाने, तदानीं तं गुरुं पृष्ट्वा कार्ये कार्यनिमित्तं शेषाणां साधूनां निमन्त्रणं कुर्याद् गृहीतेन भक्तादिनेति शेषः // 38 // 1. [उव्वाअ परिश्रान्तः - दे. 102] किमेवमुत्साहः कार्यत इत्याह - दुलहं खलु मणुयत्तं, जिणवयणं वीरियं च धम्मम्मि / एयं लभ्रूण सया, अपमाओ होइ कायव्वो // 583 // 12/39 दुर्लभं खलु दुर्लभमेव, मनुजत्वं मानुष्यम्। जिनवचनं सर्वज्ञवचनं वीर्यं च धर्मे धर्मविषयम्एतत्रितयं लब्ध्वा सदा सर्वकालम्, अप्रमादो यत्नातिशयः भवति कर्तव्यः // 39 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy