________________ 162 १२-साधसामाचारी-पञ्चाशकम गाथा-३३-३५ सत्यां निमित्तादिनेति गम्यते। विधिप्रयोगेऽपि विधिप्रयुक्तावप्यविध्यभावेऽपीत्यर्थः / प्रतिपृच्छनेति ज्ञेया निर्दिष्टविषये समाचारी, तस्मिन् गमनं शकुनवृद्ध्या त्रिवारस्खलनयापि कार्ये गमनं शकुनवृद्ध्याऽऽश्रीयते, न पुनस्तदभावे पढमं अट्ठस्सासा, बीयं जाणाहि सोलसुस्सासा। अह तइयं उद्वेज्जा, अण्णं सउणं वि मग्गेज्जा // इत्यादि वचनात् // 32 // विषयान्तरनिर्देशायाह - पुव्वणिसिद्धे अण्णे, पडिपुच्छा किल उवट्ठिए कज्जे / एवं पि नत्थि दोसो, उस्सग्गाईहि धम्मठिई // 577 // 12/33 __ पूर्वनिषिद्धे कार्ये, अन्ये सूरयः प्रतिपृच्छा कर्तव्येति मन्यन्ते। किल(-इत्याप्तप्रवादसंसूचनार्थः, अटी.)उपस्थिते कार्ये तस्मिन्नेव साम्प्रतकालकरणीये, एवमपि नास्ति दोषोऽनतिशयिनाम् उत्सर्गादिभिरुत्सर्गापवादाभ्यां धर्मस्थितिरिति हेतोः, न हि धर्मस्थितिरुत्सर्गापवादौ विहाय वर्त्तते // 33 // प्रतिपृच्छोक्ता, अधुना छन्दनामाह - पुव्वगहिएण छंदण, गुरुआणाए जहारिहं होति / असणादिणा उ एसा, णेयेह विसेसविसय त्ति // 578 // 12/34 पूर्वगृहीतेन अन्नपानादिना छन्दन उपमन्त्रणं गुर्वाज्ञया यथार्ह यथायोग्यं भवति ।अशनादिना त्वेषा छन्दना ज्ञेयेह विशेषविषय इति साधुविशेषगोचरा / न तु कश्चित् सामान्येनैवं विधत्ते // 34 // एतदेव व्यनक्ति - जो अत्तलद्धिगो खलु, विसिट्टखमगो व पारणाइत्तो / इहरा मंडलिभोगो, जतीऍ तह एगभत्तं च // 579 // 12/35 यः कश्चिद् आत्मलब्धिकः खलु अनुज्ञातात्मलब्धिरेव गुरुभिस्तद्विषयसूत्रार्थोभयपारगत्वेन विकृष्टक्षमको विशिष्टक्षपको अ.टी.]वाऽष्टमादेः कत्रा, पारणावित्तः पारणया प्रतीतः पारणिक इत्यर्थः / इतरथाऽन्यथोत्सर्गेण मण्डलीभोगः समूहभोगः, साधारणत्वाल्लभ्यस्य, विशेषतो दानधर्मानधिकारात् गुर्वनुज्ञयैव स्वीकृतस्य तत्र दानप्रवृत्तेः, यतीनां साधूनां / तथैकभक्तं च एकाशनरूपं तेनापि पृथग्भोगः // 35 //