________________ गाथा-२९-३२ _ १२-साधुसामाचारी-पञ्चाशकम् 161 इत्येकवद्भावः, तस्मात् पापक्षयपुण्यबन्धाभ्यामित्यर्थः / शुभगतिश्च गुरुलाभश्च तस्माच्छुभगतिः पापक्षयाद्, गुरुलाभः पुण्यबन्धात्, तयोरेव कार्यनिर्देशोऽयम्, एवमेवानेनैव प्रकारेण सर्वसिद्धिरिति सर्वसाध्यसिद्धिरूपः जायते // 28|| व्यतिरेकप्रधानमाह - इहरा विवज्जतो खलु, इमस्स सव्वस्स होइ जं तेणं / बहुवेलाइकमेणं, सव्वत्थाऽऽपुच्छणा भणिया // 573 // 12/29 इतरथाऽन्यथा विपर्ययः खलु विपर्यय एव, अस्य प्रस्तुतस्य सर्वस्य गुणकलापस्य भवति यद् यस्मात्, तेन कारणेन, बहुवेलादिक्रमेण सामान्यविशेषगतेन / सर्वत्राऽऽपृच्छना समाचारी भणिता प्रतिपादिता // 29 // उक्ताऽऽपृच्छा, प्रतिपृच्छामाह - पडिपुच्छणा उ कज्जे, पुव्वणिउत्तस्स करणकालम्मि / कज्जंतरादिहेडं, णिद्दिट्टा समयकेऊहिं // 574 // 12/30 प्रतिपृच्छना तु पुनः कार्ये विशिष्ट एव, पूर्वनियुक्तस्य साधोः करणकाले तन्निवर्तनावसरे, कार्यान्तरादिति हेतोः [द्वितीयायाः पञ्चम्यर्थत्वात् - अटी.] कार्यान्तरं ततोऽन्यद्गुणाधिकम्, आदिशब्दान्निमित्तस्खलनपरिग्रहः / निर्दिष्टा कथिता समयकेतुभिः समयचिह्नरागमविद्भिरित्यर्थः // 30 // 'कार्यान्तरादिहेतोः' इत्युक्तम्, तदेव व्यक्तीकर्तुमाह - कज्जंतरं न कज्जं, तेणं कालंतरे व कज्जं ति / अण्णो वा तं काहिति, कयं व एमादिया हेऊ // 575 // 12/31 कार्यान्तरमधिकं समुत्पन्नं न कार्यम् / तेन प्राक्तनेन कालान्तरे वा कार्यमिति कालान्तरे वा तत्करणीयं भविष्यति न कदाचित् क्षतिः अन्यो वा साधुः तत्कार्यं करिष्यति सम्पादयिष्यति, तत्करणसमर्थत्वात् / कतं वाऽन्येन साधना तदेवमादिका हेतवः प्रतिपच्छायां सम्भविनोऽन्येऽपि द्रष्टव्याः // 31 // अहवा वि पयट्टस्सा तिवारखलणाए विहिपओगेऽवि / पडिपुच्छण त्ति णेया, तहिं गमणं सउणवुड्डीए // 576 // 12/32 अथवा प्रकारान्तरे प्रवृत्तस्यापि सतः, त्रिवारस्खलनायां त्रीन् वारान् यावत् स्खलनायां