________________ गाथा-४४-४७ १२-साधुसामाचारी-पञ्चाशकम् 165 चारित्र-प्रभावकसूत्रा-र्थोभयविषया एषेत्युपसम्पत् / वैयावृत्तेत्त्ये]वैयावृत्त्यविषया क्षमणे क्षमणविषया। काले पुनः विचार्ये यावत्कथिकादिः, आदिशब्दादित्वरपरिग्रहः / चारित्रविषया वैयावृत्त्योपसम्पद यावत्कथिकीत्वरकाला च क्षमणेऽप्येवम् // 43 / / (1. क्षपणेचतुर्थादिरूपक्षपणविषया, अटी.) कथं पुनः शुद्धोपसम्पदिष्यत इत्याह - संदिट्ठो संदिट्ठस्स चोवसंपज्जई उ एमाई। चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो // 588 // 12/44 सन्दिष्टो विवक्षितोऽनुज्ञाविषयीकृत इत्यर्थः / सन्दिष्टस्य चैव विवक्षितस्यैव गुरोः, सम्पद्यते त्वेवमादिश्चतुर्भङ्गश्चतुर्विधः प्रकारः, अत्र पुनश्चतुर्षभङ्गेषु प्रथमो भङ्गो भवति शुद्धो निर्दोषः // 44 // वर्तनादीन्येव सर्वाणि व्याचष्टे - अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं / तस्सेव पएसंतरणट्ठस्सऽणुसंधणा घडणा // 589 // 12/45 अस्थिरस्यापरिचितस्य पूर्वं गृहीतस्य वाचनया वर्तना यदिह स्थिरीकरणमन्यसमीपे, तस्यैव पूर्वगृहीतस्य, प्रदेशान्तरनष्टस्यान्तराविच्छिन्नस्य अनुसन्धनाऽनुसन्धानमुच्यते। का घटना नैरन्तर्यापादनम् // 45 // गहणं तप्पढमतया, सुत्तादिसु नाणदंसणे चरणे / वेयावच्चे खमणे, सीदणदोसादिणाऽण्णत्थ // 590 // 12/46 ग्रहणं वाचना तत्प्रथमतया अपूर्वपाठेन सूत्रादिषु सूत्रार्थोभयरूपेषु विषयभूतेषु, ज्ञानदर्शने चरणे व्यावृत्ये क्षमणे सीदनदोषादिना ज्ञानादिसन्नतादिना दोषेणाक्रान्ते स्वगच्छे, अन्यत्र गच्छान्तरे सङ्क्रमे सत्युपसम्पच्चारित्रविषया // 46 / / पूर्वोक्तगाथोक्तशेषं व्याचष्टे - इत्तरियादिविभासा, वेयावच्चम्मि तह य खवगे वि / अविगिट्टविगिटुंमि य, गणिणा गच्छस्स पुच्छाए // 591 // 12/47 इत्वरिकादिविभाषा कियत्कालोपसम्पदो यावत्कथिकोपसम्पदश्च विभाषा व्याख्या कर्तव्या। वैयावृत्त्ये गुर्वादिव्यावृतकर्मणि, तथा च क्षमकेऽपि क्षपणार्थो विधये [अविकृष्ट-विकृष्टे]