________________ गाथा-१३-१५ १२-साधुसामाचारी-पञ्चाशकम् 157 कत्ति कडं मे पावं, ड त्ति य डेवेमि तं उवसमेणं / एसो मिच्छादुक्कडपयक्खरत्थो समासेणं // 557 // 12/13 जुग्गं / 'मि'इत्येकमक्षरम्, मृदुनो भावः मार्दवं, क्रियारूपं विनयावनतिलक्षणं तद्भावस्तत्त्वं तस्मिन् वर्तते / ‘च्छा' इति च दोषाणां च्छादने भवति / 'मे' इति च मर्यादायां स्थितोऽहं पुनस्तदुल्लङ्घनाभावेन। 'दु' त्ति 'दु' इत्यक्षरं जुगुप्साऽस्य आत्मानमित्यर्थे वर्त्तते // 12 // __ 'क' इत्यक्षरं कृतं मया पापम्, न त्वकृतमित्यभ्युपगमे। 'ड' इति डिये अन्तर्भाविताप्यर्थत्वादुल्लङ्घयामि, तत्पापम् उपशमेन क्रोधादिप्रशमेन / एषोऽनन्तरोक्तः मिथ्यादुष्कृतपदे अक्षराणि तेषाम् अर्थोऽभिधेयः समासेन सङ्केपेण, प्रत्येकमपि अक्षराणामर्थोऽस्ति, अन्यथा तत्समुदायेऽप्य-भावप्रसङ्गात्, सिकतासु तैलवत्, समुदाये त्वर्थः प्रकट एव / मिथ्या अलीकं यन्मया कृतं मतं वा। प्रज्ञापनीयविषयं दुष्कृतं च, न सुकृतं ममैतदिति विधेयविषयं तस्मादुभयमपि सङ्गतमेव // 13|| उक्तो मिथ्याकारः साम्प्रतं तथाकारमाह - कप्पाकप्पे परिणिट्ठियस्स ठाणेसु पंचसु ठियस्स / संयमतवड्ढगस्स उ, अविगप्पेणं तहक्कारो // 558 // 12/14 कल्प्याऽकल्प्ययोर्वस्तुनोरथवा कल्पो द्वादशविधः, तद्विपरीतस्त्वकल्पः। सोऽपि तथैव, तयोः परिनिष्ठितः सूत्रार्थोभयपारगतः / तस्यन आस्थीयते यतिभिर्येषु तानि स्थानानि महाव्रतानि तेषु पञ्चषु स्थितस्य प्रतिष्ठितस्य / संयमश्च तपश्च संयमतपसी। अभ्यर्हितत्वात्संयमस्य पूर्वनिपातो, यथा दीक्षातपसी / ताभ्यामाढ्यः परिपूर्णः / स्वार्थिककन्प्रत्ययोपादानात्, संयमतपआढ्यकस्तस्य, तुरेवकारार्थे / अविकल्पेन विकल्पाभावेन निर्विकल्पमित्यर्थः / तथाकारस्तथाकारस्तथाशब्दः प्रयोक्तव्योऽन्योऽपि तदर्थाभिधायी, शास्त्रे तथा श्रवणात् 'तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते'। से एवं भंते ! एवं भंते !' [ श्री कल्पसूत्र-सूत्र-१४ ] एवं पदसन्दर्भात् // 14 // क्व पुनर्विषयेऽयं कर्तव्यमित्याह वायणपडिसुणणाए, उवएसे सुत्तअत्थकहणाए / अवितहमेयं ति तहा, अविगप्पेणं तहक्कारो // 559 // 12/15 वाचनायामपूर्वसूत्रोद्देशरूपायाम्, प्रतिश्रवणे च कार्याभ्युपगमविषये, उपदेशे सामान्येनैव, सूत्रार्थकथनायां सम्यक् सूत्रार्थव्याख्यायाम् अवितथमेतदिति ।तथैतदिति अविकल्पेनाऽसन्देहेन /