________________ 156 १२-साधुसामाचारी-पञ्चाशकम् गाथा-९-१२ आज्ञाबलाभियोग, आज्ञाबलात्कारः अथवाज्ञानियोगो बलाभियोगो बलात् प्रयोगः, निर्ग्रन्थानां न कल्पते, परविषये कर्तुं विधातुम् इच्छा प्रयोक्तव्या स्वकीयेच्छा भवतामत्र वस्तुनीत्येवंरूपा, शैक्षे अचिरदीक्षिते तथा चैव रात्निके रत्नाधिकेष्वेवेत्यर्थः // 8 // अत्रैव विशेषमाह - जोग्गेऽवि अणाभोगा, खलियम्मि खरंटणा वि उचिय त्ति / ईसिं पण्णवणिज्जे, गाढाजोगे उ पडिसेहो // 553 // 12/9 योग्येऽपि गुणवत्यपि पुरुषे अनाभोगादनुपयोगात् स्खलिते मार्गात् प्रच्युते, खरण्टणापिखिसापि उचितेत्यहँव, ईषन्मनाक् प्रज्ञापनीये प्रबोधनीये, गाढायोग्ये त्वप्रज्ञापनीये प्रतिषेधः खिसाया इति गम्यते / तस्य तीव्रतरसङ्क्लेशोपपत्तेरात्महिताऽपरिज्ञानात् / तन्निमित्तकर्मबन्धभावोपपत्तेः, तस्य च परिहार्यत्वात् // 9 // उक्त इच्छाकारः, साम्प्रतं मिथ्याकारविषयमाह - संजमजोगे अब्भुट्ठियस्स जं किंचि वितहमायरियं / मिच्छा एतं ति वियाणिऊण तं दुक्कडं देयं // 554 // 12/10 संयमयोगे संयमव्यापारे, अभ्युत्थितस्योद्यमवतः, यत्किञ्चिद् वितथमन्यथा आचरितं सञ्जातम्, मिथ्याऽनृतम्, मे एतदिति विज्ञाय तद् दृष्कृतं देयं मिथ्यादुष्कृतं कार्यम् // 10 // ननु यत् दुष्कृतेन कर्मोपनिबद्धम्, तदनुभवनीयमेव / कस्तत्र गुण इत्याशङ्क्याह - सुद्धेणं भावेणं, अपुणकरणसंगतेण तिव्वेणं / एवं तक्कम्मखओ, एसो से अत्थनाणंमि // 555 // 12/11 शुद्धेन भावेनोपनिबद्धकर्मक्षयकरणयोग्येन, अपुनःकरणसङ्गतेन, न पुनर्मयेदं कर्तव्यमिति प्रकारान्वितेन तीव्रण उत्कृष्टेन एवं मिथ्यादृष्कृतदानात् तत्कर्मक्षयो दुष्कृतकर्मक्षयो भवतीति शेषः / एष च कर्मक्षयः, से तस्य मिथ्यादष्कृतस्य, अर्थज्ञाने तदवाच्यार्थपरिज्ञाने सति, तेन तदर्थोऽभिधीयते // 11 // ___ ['मिच्छा मि दुक्कडं' इत्येतत् प्राकृतपदमाश्रित्य-] पूर्वसूरिकृतव्याख्यया-[गाथायुगलेनाह] - मि त्ति मिउमद्दवत्ते, छ त्ति उ दोसाण छादणे होति / मे त्ति य मेराएँ ठिओ, दु त्ति दुगुंछामि अप्पाणं // 556 // 12/12