SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ गाथा-५-८ __ १२-साधुसामाचारी-पञ्चाशकम् 155 अस्याः प्रत्यवयवमन्वय-व्यतिरेकाभ्यामन्वाख्यानायाह - सइ सामत्थे एसो, नो कायव्वो विणाऽहियं कज्जं / अब्भत्थिएण वि विहा, एवं खु जइत्तणं सुद्धं // 549 // 12/5 सति विद्यमाने सामर्थ्य कार्यकारणशक्तत्वरूपे एष इच्छाकारो नो नैव कर्तव्यो विनाधिकं कार्यम्। स्वयंसमर्थेनापि गुणाधिकं कार्यं विहाय तत्र स्वपरयोरर्थसिद्धेः / अभ्यर्थितेनाप्यभ्यर्थनाविषयीकृतेनाप्यपरसाधुना, वृथाऽभ्यर्थना न कर्तव्येति गम्यते / एवं खल्वेवमेव यतित्वं साधुत्वं शुद्धं निरूपचरितं निरवद्यमिति भावः / / 5 / / करणेनेत्यादेाचिख्यासयाह - कारणदीवणयाइ वि, पडिवत्तीइऽवि य एस कायव्वो / राइणियं वज्जेत्ता, तगोचिए तम्मि वि तहेव // 550 // 12/6 कारणदीपनायामपि कारणप्रकाशनायाम्, अहं गुरुभिरन्यस्मिन् गुरुतरकार्ये नियुक्त इत्येवंरूपायाम्, देशकालज्ञतया, प्रतिपत्तावपि च परस्य स्वयंकरणाभ्युपगमरूपायाम् एष कर्तव्य इच्छाकारो विधेयः / ज्ञान-दर्शन-चारित्ररत्नैश्चरतीति रात्निको रत्नाधिकस्तं वर्जयित्वा तस्य ज्येष्ठत्वान्नेच्छाकारः, सामान्येन, तको रत्नाधिकस्तस्योचिते तदुचिते कार्ये ज्ञानदर्शनप्रभावकशास्त्रग्रहणादौ, तस्मिन्नपि रत्नाधिके तथैवेच्छाकारः कर्तव्यः // 6 // एवं आणाऽऽराहणजोगाओ आभिओगियखओ त्ति / उच्चागोयनिबंधो, सासणवण्णो य लोगम्मि // 551 // 12/7 एवमुक्तनीत्या आज्ञाराधनयोगाद् गुरुवचननिष्पादनयोगात् सर्वज्ञाज्ञानिष्पादनव्यापाराद् वा आभियोगिकक्षय इति पराभियोगजनितकर्मक्षयः सम्पद्यते / उच्चैर्गोत्रनिबन्धः परपरिभवपरिहारेण तदुन्नतिसम्पादनात्, स्वयं च समताऽनतिवृत्तेः / समभावस्य च देशविरतिगतस्यापि, उच्चैर्गोत्रनिबन्धहेतुत्वेन नियमेन प्रसिद्धः, न हि भावतो देशविरतस्यापि नीचैर्गोत्रनिबन्धः श्रूयते / गुणप्रत्ययस्तूदयस्तस्यैव, किं पुनः सर्वविरतस्य / शासनवर्णश्च दर्शनवर्णवादश्च लोके, सामान्येनैव 'निपुणभावप्रतिपादकमिदं जैनशासनम्' इति बहुमानात् / / 7 / / किं पुनरियं मर्यादेत्युपदिश्यत इत्याह - आणाबलाभिओगो, निग्गंथाणं न कप्पए काउं / इच्छा पउंजियव्वा, सेहे तह चेव राइणिए // 552 // 12/8
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy