________________ गाथा-४१-४४ ११-साधधर्मविधि-पञ्चाशकम् 151 “यस्य प्रभावादाकाराः, क्रोधहर्षभयादिषु। भावेषु नोपलभ्यन्ते, तद् गाम्भीर्यमुदाहृतम्"॥१॥[ ] इत्युक्तेः / धीमन्तो बुद्धिमन्तः प्रज्ञापनीयाः सुखावबोधनीयाः महासत्त्वा अविक्लवाध्यवसायवन्तः आपत्स्ववैक्लव्यकरमध्यवसानकरं च सत्त्वम्'[ ] इत्युक्तेः // 40 // उस्सग्गववायाणं, वियाणगा सेवगा जहासत्तिं / भावविसुद्धिसमेता, आणारुइणो य सम्मं ति // 535 // 11/41 उत्सर्गापवादयोर्विज्ञाप[य]का विज्ञातारः, उत्सर्गापवादपदानां वा भूयसां सेवका अनुष्ठातारो यथाशक्ति तदनतिक्रमेण भावविशुद्धिसमेता अध्यवसायशुद्धिसमन्विताः, आज्ञारुचयश्चागमाभिलाषवन्तश्च सम्यगिति सङ्गतन्यायेन / भावविशुद्धिसमेतत्वं चैवम् - अज्झवसायविसुद्धीविवज्जिया जे तवं विगिट्टमवि / बाललेसा न होइ सा केवला सुद्धी कुव्वंति // [आराहणापडागा गाथा-१६] इत्युक्तेः // 41 // सव्वत्थ अपडिबद्धा, मेत्तादिगुणणिया य नियमेण / सत्ताइसु होति दढं, इय आययमग्ग तल्लिच्छा // 536 // 11/42 सर्वत्र द्रव्यक्षेत्रकालभावेषु, अप्रतिबद्धाः प्रतिबन्धरहिताः मैत्र्यादिगुणान्विताश्च मैत्रीप्रमोद-कारुण्य-माध्यस्थ्यगुणयुक्ताश्च नियमेन सत्त्वादिषु सत्त्वगुणाधिकक्लिश्यमानाऽविनेयेषु विषयभूतेषु यथासङ्ख्यं भवन्ति दृढमत्यर्थम, इत्येवं भावकालसदाभावित्वाद आयतो मोक्षस्तस्य मार्गः सम्यग्दर्शनादिरत्नत्रयरूपः / आयतो वाऽतिप्रयत्नसमेतो यो मार्गस्तल्लिप्सास्तत्पराः // 42 // एवंविहा उणेया, सव्वणयमतेण समयणीतीए / भावेण भाविएहिं, सइ चरणगुणट्ठिया साहू // 537 // 11/43 एवंविधास्त्वेवंविधा एव ज्ञेया ज्ञातव्याः, सर्वनयमतेन ज्ञानक्रियान्तर्गतसर्वनयाभिप्रायेण समयनीत्यागमनीत्या, भावेन सदन्तःकरणलक्षणेन भावितैर्वासितैः पुरुषैरागमतत्त्ववेदिभिरिति यावत् / सदा सर्वकालं / चरणं चारित्रपरिणामः, गुणो ज्ञानदर्शनरूपः तयोः स्थिताश्चरणगुणस्थिताः साधवः पौरुषेयीभिर्ज्ञान-दर्शन-चारित्रशक्तिभिर्मोक्षं साधयन्ति इति निरुक्तात् // 43 / / नाणम्मि दंसणम्मि य, सति नियमा चरणमेत्थ समयम्मि / परिसुद्धं विण्णेयं, नयमयभेया जओ भणियं // 538 // 11/44