SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 152 ११-साधुधर्मविधि-पञ्चाशकम् गाथा-४५-४८ ज्ञानेऽववोधस्वभावे, दर्शने च तत्त्वरुचिस्वभावे सति विद्यमाने नियमान्नियमेन चरणमत्र समये परिशुद्धं भाविकं विज्ञेयमवबोद्धव्यम् / नयमतभेदाद् यतो भणितमुक्तं समय एव // 44 // निच्छयणयस्स चरणायविघाए नाणदंसणवहो वि / ववहारस्स उ चरणे, हयम्मि भयणा उ सेसाणं // 539 // 11/45 निश्चयनयस्य चरणात्मविघाते चरणात्मनो विनाशे ज्ञानदर्शनवधोऽपि ज्ञानदर्शनापायोऽपि, व्यवहारस्य तु नयस्य, चरणे हते परिणामक्रियाभ्यां भजना [तु]शेषयोनि-दर्शनयोः, क्वचित् सम्भवः क्वचिन्नेति // 45 // निश्चयमतमेवाह - जो जहवायं न कुणति, मिच्छद्दिट्ठी तओ हु को अण्णो ? / वड्ढेइ य मिच्छत्तं, परस्स संकं जणेमाणो // 540 // 11/46 यो यथावादं यथोक्तं न करोति यथागममित्यर्थः / मिथ्यादृष्टिस्ततो हु, ततस्तु, कोऽन्यः? स एवाऽयथागमकारी मिथ्यादृष्टिरिति निश्चयस्य गर्भः / वर्धयति च मिथ्यात्वमागमविषयं वितथत्वं परस्य शङ्कांजनयन् ‘किमेवमयं चेष्टते' यद्ययमागमः सत्यो भवति, नूनमस्याप्ययमसत्य इवाभाति तेनान्यथा चेष्टते, एवं स्फुटैव परस्य वितथत्वे शङ्का, इति निश्चयाभिप्रायः // 46 // एवं च अहिनिवेसा, चरणविघाए न नाणमादीया / तप्पडिसिद्धासेवणमोहासद्दहणभावेहिं // 541 // 11/47 एवं चाभिनेवेशादत्यन्ताग्रहात् चरणविघाते चरित्रपरिणामे विनाशे, न ज्ञानादयो गुणाः तत्प्रतिषिद्धमागमप्रतिषिद्धं, तस्यासेवनं करणम्, मोहोऽज्ञानम् अश्रद्धानमश्रद्धा तत्प्रतिषिद्धा-ऽऽसेवन-मोहाऽश्रद्धानानि तेषां भावाः सद्भावा उत्पादा वा तै[ते तथा]तै[रिति] // 47 // अणभिनिवेसाओ पुण, विवज्जया होंति तविघाएऽवि / तक्कज्जुवलंभाओ, पच्छातावाइभावेण // 542 // 11/48 अनभिनिवेशात् आग्रहाभावात्, पुनरविपर्ययात् विपर्यायाभावादविपर्यस्तमतित्वाद् भवन्ति सम्भवन्ति। तद्विघातेऽपि चरणविघातेऽपि, ज्ञानादय इति सम्बन्ध्यते / तत्कार्योपलम्भाद् ज्ञानदर्शनकार्योपलम्भात्, पश्चात्तापादिभावेन पश्चात्तापप्रतीकारप्रायश्चित्तादिसद्भावेन // 48 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy