SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 150 ११-साधुधर्मविधि-पञ्चाशकम् गाथा-३७-४० अत्रैव व्यतिरेकमाह - जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणंता / सग्गाहा किरियरया, पवयणखिसावहा खुद्दा // 531 // 11/37 ये तु ये पुनः तथा तेनात्माभिमानप्रकारेण, विपर्यस्ता विपरीतमतयः, सम्यग्न्यायेन गुणानां गौरवं दोषाणां च लाघवमजानन्तः स्वरूपेणापश्यन्तः स्वग्रहात् स्वाभिनिवेशात् क्रियारताः तथाविधबाह्यक्रियासक्ताः प्रवचनखिसावहास्तत्पूर्वापरानालोचनेन तन्निन्दाहेतवः क्षुद्राः कृपणस्वभावा अनुदाराशया इत्यर्थः // 37 // पायं अभिण्णगंठी, तमाउ तह दुक्करं पि कुव्वंता / बज्झा व ण ते साहू, धंखाहरणेण विण्णेया // 532 // 11/38 प्रायो बाहुल्येनाभिन्नग्रन्थयोऽकृतग्रन्थिभेदाः तमसोऽज्ञानात् तथा दुष्करमप्यानुष्ठानं तपःप्रभृति कुर्वन्तः सन्तो बाह्या इव परतीथिका इव, न ते साधवः साधुगुणाप्रतिष्ठितत्वात् / ध्वाङ्क्षाहरणेन ध्वाङ्क्षोदाहरणेन विज्ञेया ज्ञातव्यास्तच्चेदम् - दंखा वावीए तडे विरला ते उण तिसाए अभिभूया। पुरओ मायासरदसणेण तह संपय{ति // [ उपदेशपद-गाथा-८२४ ] सद्वस्तुपरित्यागेनासद्वस्त्वभिलाषिणो ध्वाङ्क्षप्रायाः सत्साधवो न भवन्तीत्यवसेयम् // 38 // तेसिं बहुमाणेणं, उम्मग्गऽणुमोयणा अणिट्ठफला / तम्हा तित्थगराणाठिएसु जुत्तोऽत्थ बहुमाणो // 533 // 11/39 तेषां तथाविपर्यस्तानां बहुमानेनान्तरप्रीत्या, उन्मार्गानुमोदनोन्मार्गानुमतिः, [अनागमिकाचारानुमतिः अटी.] अनिष्टफलाऽनभिप्रेतफला तत् तस्मात् तीर्थकराज्ञास्थितेषु भ[ग]वदाज्ञाव्यवस्थितेषु साधुषु युक्तः सङ्गतः अत्राधिकारे बहुमानो बहुमतत्वम् // 39 // ते पुण समिया गुत्ता, पियदढधम्मा जिइंदियकसाया / गंभीरा धीमंता, पण्णवणिज्जा महासत्ता // 534 // 11/40 ते पुनः साधवः समिताः पञ्चभिः समितिभिः गुप्तास्त्रिसृभिर्गुप्तिभिः प्रियदृढधर्माः प्रियधर्माणो दृढधर्माणश्च जितेन्द्रियकषायाः जितः स्पर्शन-क्रोधादय गम्भीराः परैरलब्धमध्याः, विकारैरक्षोभ्या वा[हर्ष-दैत्याविभावाः अटी.]
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy