________________ 144 ११-साधुधर्मविधि-पञ्चाशकम् गाथा-१२-१६ __ अगीतार्थो गीतार्थाज्ञाकारणादित्युक्तम्, तत्राज्ञाप्राधान्येनैवाह / अथवा सम्यगनुष्ठानमाज्ञासारं धर्म इत्युक्तम्, तदेवोद्दिश्यमाह - आणारुइणो चरणं, आणाए च्चिय इमं ति वयणाओ। एत्तोऽणाभोगम्मि वि, पण्णवणिज्जो इमो होइ // 506 // 11/12 आज्ञारुचेश्चरणं आज्ञात एवेदमिति वचनात् अत आज्ञारुचित्वाद्, अनाभोगेऽप्यपरिज्ञानेऽपि विशेषतः क्वचिदस्तुत्यानुष्ठाने विषयीकृते प्रज्ञापनीयोऽवबोधनीयः सुखसम्पाद्यावबोधः, अयमगीतार्थो भवति // 12 // एसा य परा आणा, पयडा जं गुरुकुलं न मोत्तव्वं / आचारपढमसुत्ते, एत्तो च्चिय दंसियं एयं // 507 // 11/13 एषा चैवंरूपा परा प्रधाना, आज्ञा भागवती, प्रकटाऽनावृतस्वरूपा यत् गुरुकुलं गुरुसन्ततिः न मोक्तव्यम्' न त्याज्यम् / आचारप्रथमसूत्रे आचाराङ्गप्रारम्भसूत्रे 'सुयं मे आउसंतेण' इत्यादौ। अत एवाज्ञाप्राधान्यादेव दर्शितमेतत् गुरुकुलामोचनम् // 13 // एयम्मि परिच्चत्ते, आणा खलु भगवतो परिच्चत्ता / तीए य परिच्चागे, दोण्ह वि लोगाण चागो त्ति // 508 // 11/14 एतस्मिन् गुरुकुले परित्यक्ते प्रोज्झिते, आज्ञा खलु भगवतः परित्यक्तानङ्गीकृता / तस्याश्चाज्ञाया: परित्यागे समुत्सर्गे द्वयोरपि लोकयोस्त्याग इतीहपरलोकयो(कल्यापादनात् // 14 // ता न चरणपरिणामे, एयं असमंजसं इहं होति / आसण्णसिद्धियाणं, जीवाण तहा य भणियमिणं // 509 // 11/15 तत् तस्मात् न चरणपरिणामेऽभ्यन्तरे तथाविधकर्मक्षयोपशमसमुत्थे एतत् गुरुकुलत्यागादिकम्, असमञ्जसमयुक्तम् इह साधु धर्मे भवति / आसन्नसिद्धिकानां प्रत्यासन्नपरमपदप्राप्तीनां जीवानां भव्यराश्यन्तर्वतिनाम् / तथा च भणितमुक्तमेतत् // 15 / / नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य / धण्णा आवकहाए, गुरुकुलवासं न मुंचंति // 510 // 11/16 ज्ञानस्य श्रुतात्मकस्य भवति भागी भाजनं पुरुष इति गम्यते / स्थिरतरको दृढतरको दर्शने सम्यक्त्वे चरित्रे च पूर्वोक्ते / धन्या यावत्कथया यावज्जीवं गुरुकुलवासं न मुञ्चन्ति नोत्सृजन्ति // 16 //