________________ __ गाथा-८-११ ११-साधुधर्मविधि-पञ्चाशकम् 143 उक्तः साधुः, अधुनाऽस्य धर्म उच्यते - धम्मो पूण एयस्सिह, संमाणाणपालणारूवो / विहिपडिसेहजुयं तं, आणासारं मुणेयव्वं // 502 // 11/8 धर्मः पुनरेतस्य साधोः इहाधिकारे सम्यगनुष्ठानपालनारूपः सम्यक् च तदनुष्ठानं च तस्य पालना रक्षणं तद्रूपस्तल्लक्षणः / विधिप्रतिषेधयुतं ध्यानाध्ययनहिंसामृषाद्यासेवापरिहारसमन्वितं तत्सम्यगनुष्ठानं आज्ञासारं सर्वज्ञाज्ञाप्रधान मन्तव्यम् // 8 // अग्गीयस्स इमं कह ? गुरुकुलवासाउ, कह तओ गीओ ? / गीयाणाकरणाओ, कहमेयं ? णाणतो चेव // 503 // 11/9 अगीतस्यागीतार्थस्य इदं ज्ञानं कथमिति प्रश्नः, गुरुकुलवासादित्युत्तरम्, कथं तकः ? स गीतो गीतार्थो गुरुकुलावासादेव, गीताज्ञाकरणाद् गीतार्थाज्ञासेवनात्, कथमेतद् गीतार्थाज्ञाकरणं? ज्ञानत एव तत्पारतन्त्र्यरूपात् / न हि ज्ञानाभावे स तद्वदुपदिष्टे प्रवर्त्तते // 9 // चारित्तओ च्चिय दढं, मग्गणुसारी इमो हवइ पायं / एत्तो हिते पवत्तति, तहणाणातो सदंधो व्व // 504 // 11/10 चारित्रत एव दृढमत्यर्थं मार्गानुसारी स्वभावेन, अयं साधुः भवति / प्रायो बाहुल्येन, अतो मार्गानुसारित्वाद्, हिते प्रवर्तते अहितपरित्यागेन / तथाज्ञानादुभयाविसंवादगतात् सदन्ध इव तथाविधपुण्यसमेतान्धवत् - यथाहि कश्चित् मार्गानुसारी चक्षुर्विकलोऽपि मार्ग एव स्वरसप्रवृत्त्या प्रवर्तते तथाऽयमगीतार्थोऽपि यतिस्तथाविधमार्गानुसारित्वादेव हिते प्रवृत्तिं विदधाति // 10 // अंधोऽणंधो व्व सदा, तस्साणाए तहेव लंघेइ / भीमं पि हु कंतारं, भवकंतारं इय अगीतो // 505 // 11/11 अन्धश्चक्षुर्विकलो अनन्ध इव चक्षुष्मानिव सदा सर्वकालं तस्य चक्षुष्मतः आज्ञया उपदेशरूपया तथैव चक्षुष्मानिव लङ्घयति अतिक्रामति तत्पदानुसारी भीममपि गहनमपि, हुर्वाक्यालङ्कारे कान्तारमटवीम् / भवकान्तारं संसारारण्यम् इत्येवम् अगीतोऽगीतार्थः / लङ्घयतीति सम्बन्धः // 11 //